________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 563 // पञ्चममध्ययनं पञ्चस्थानम्, द्वितीयोद्देशक: सूत्रम् 420-421 उपध्यादिपरिज्ञा आगमादिव्यवहारा: द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेषः, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद्वाच्यमिति / अनन्तरं कर्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह पंचविहा परिन्ना पं० तं०- उवहिपरिन्ना उवस्सयपरिन्ना कसायपरिन्ना जोगपरिन्ना भत्तपाणपरिन्ना // सूत्रम् 420 // पंचविहे ववहारे पं० तं०- आगमे सुते आणा धारणा जीते, जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्ठवेजा णो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्ठवेज्जा णो से तत्थ सुते सिता एवं जाव जहा से तत्थ जीए सिया जीतेणं ववहारं पट्टवेजा, इच्चेतेहिं पंचहिं ववहारं पट्टवेज्जा आगमेणं जाव जीतेणं, जधा 2 से तत्थ आगमे जाव जीते तहा 2 ववहारं पट्ठवेजा, से किमाहुभंते! आगमबलिया समणा निग्गंथा?, इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तया तता तहिं तहिं अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति // सूत्रम् 421 / / पंचविहे त्यादि,सुगमम्, नवरं परिज्ञानं परिज्ञा- वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भावतश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च- भावपरिन्ना जाणण पच्चक्खाणं च भावेणंइति, तत्रोपधी- रजोहरणादिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते- सेव्यते संयमात्मपालनायेत्युपाश्रयः॥परिज्ञा च व्यवहारवतां भवतीति व्यवहारं प्ररूपयन्नाह-पंचे त्यादि, व्यवहरणं व्यवहारो, व्यवहारो- मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वाद् ज्ञानविशेषोऽपिव्यवहारः, तत्र आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः- केवलमनःOज्ञानं भावेन प्रत्याख्यानं च भावपरिज्ञा / / // 563 //