________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 550 // गिहिनायं कत्तियं जाव॥१॥(बृहत्क० 4282) त्ति, अनभिगृहीतं-अनिश्चितमशिवादिभिर्निर्गमभावाद्, आह च- असिवादिकारणेहिं अहवा वासं न सुट्ट आरद्धं / अभिवड्वियंमि वीसा इयरेसु सवीसई मासो॥१॥ (बृहत्क० 4283) इति, यत्र संवत्सरे अधिकमासो भवति तत्र आषाढ्या विंशतिदिनानि यावदनभिग्रहिक आवासोऽन्यत्र सविंशतिरात्रं मासं-पञ्चाशतं दिनानीति, अत्र चैते दोषा:- छक्कायविराहणया आवडणं विसमखाणुकंटेसु / वुज्झण अभिहण रुक्खोल्लसावए तेण उवचरए॥१॥ अक्खुन्नेसु पहेसु पुढवी उदगं च होइ दुविहं तु / उल्लपयावणअगणी इहरा पणओ हरियकुंथू॥२॥ (बृहत्क० 2736-37) इति, ततस्तत्र प्रावृषि किमत आह- एकस्माद्ग्रामादवधिभूतादुत्तरग्रामाणामनतिक्रमो ग्रामानुग्रामं तेन ग्रामपरम्परयेत्यर्थो, अथवा एकग्रामाल्लघुपश्चाद्भावाभ्यां ग्रामोऽणुग्रामो, गामो य अणुगामो य गामाणुगामं, तत्र दूइजित्तए त्ति द्रोतुं-विहर्तुमित्युत्सर्गः, अपवादमाहपंचे त्यादि, तथैव, नवरमिह प्रव्यथेत- ग्रामाच्चालयेन्निष्काशयेत् कश्चिदुदकौघे वा आगच्छति ततो नश्यदिति, उक्तं च आवाहे दुब्भिक्खे भए दओघंसि वा महंतसी। परिभवणतालणं वा जया परो वा करेज्जासि // 1 // (बृहत्क० 2739) इति, तथा वर्षासु- वर्षाकाले वर्षो- वृष्टिर्वर्षावर्षो वर्षासु वा आवास:- अवस्थानं वर्षावासस्तम्, स च जघन्यतः आकार्त्तिक्याः दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासप्रमाणः उत्कृष्टतः षण्मासमानः, तदुक्तं- इअसत्तरी जहन्ना असिइ नउई वीसुत्तरसयंव। - सविंशतिरात्रिंदिवं मासमत्रानभिगृहीतम् / ततः परमभिगृहीतं गृहिज्ञातं कार्तिकं यावत् // 1 // ॐ अशिवादिभिः कारणैरथवा वर्षणं न सुष्ठु आरब्धम् / अभिवर्द्धिते * विंशतिरितरेषु सविंशतिर्मासः॥ 1 // ॐ षट्कायविराधनाऽऽपतनं विषमस्थाणुकण्टकेषु / वहनमभिहननं वृक्षादावार्द्रताश्वापदाः स्तेनोपचरकशङ्का॥ 1 // अक्षुण्णेषु पथिषु पृथिव्युदकं (भौमान्तरिक्षभेदं) भवति द्विविधं तु आईप्रतापनेऽग्निरितरथा पनको हरिते कुन्थुस्त्रसे॥२॥ 0 आवाहे दुर्भिक्षे भये महति वा दकौघे। परिभवनं ताडनं वा यदा परो वा करिष्यति // 1 // 0 इति सप्ततिर्जघन्योऽशीतिर्नवतिर्विंशत्युत्तरं शतं च। पञ्चममध्ययनं | पश्चस्थानम्, द्वितीयोद्देशकः सूत्रम् 412-413 गंगादयो द्विकत्वस्त्रिकृत्वोवा मासान्तरनुत्तार्या नद्यः अन्यत्र भयादिभ्यः // 550 //