________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 546 // पञ्चममध्ययन पञ्चस्थानम्, प्रथमोद्देशकः सूत्रम् 411 पद्यप्रभादीनां चतुर्दशानां च्यवनादिनक्षत्राणि चित्राभिरिति रूढ्या बहुवचनम्, च्युतोऽवतीर्ण उपरिमोपरिमौवेयकादेकत्रिंशत्सागरोपमस्थितिकात् च्युत्वा च 'गब्भं'ति गर्भे कुक्षौ व्युत्क्रान्त- उत्पन्नः, कौशाम्ब्यांधराभिधानमहाराजभार्यायाः सुसीमानामिकाया माघमासबहुलषष्ठ्याम्, जातोगर्भनिर्गमनेन कार्तिकबहुलद्वादश्याम्, तथा मुण्डो भूत्वा केशकषायाद्यपेक्षया अगारान्निष्क्रम्यानगारितां-श्रमणतांप्रव्रजितोगतोऽनगारितया वा प्रव्रजितः कार्तिकशुद्धत्रयोदश्याम्, तथाऽनन्तं पर्यायानन्तत्वाद्, अनुत्तरं सर्वज्ञानोत्तमत्वाद् निर्व्याघातमप्रतिपातित्वाद् निरावरणं सर्वथा स्वावरणक्षयात् कटकुड्याद्यावरणाभावाद्वा कृत्स्नंसकलपदार्थविषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्डं पौर्णमासीचन्द्रबिम्बवत्, किमित्याह- केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं- प्रधान केवलवरं ज्ञानं च-विशेषावभासं दर्शनं च-सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नं- जातं चैत्रशुद्धपञ्चदश्याम्, तथा परिनिर्वृत्तो- निर्वाणं गतो मार्गशीर्षबहुलैकादश्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति / एवं चेव त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमप्यध्येतव्यम्, एवं अनन्तरोक्तस्वरूपेण एतेन- अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्रहणिगाथा अनुगन्तव्याः- अनुसतव्याः,शेषसूत्राभिलापनिष्पादनार्थं पउमप्पभस्से त्यादि, तत्र पद्मप्रभस्य चित्रानक्षत्रं च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गाथाक्षरार्थो वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां त्वेवं-'सीयले णं अरहा पंचपुव्वासाढे होत्था, तंजहा-पुव्वासाढाहिंचुए चइत्ता गम्भं वक्वंते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपिइति, व्याख्या त्वेवं-पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युतश्च्युत्वा काकन्दीनगर्यां सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तो, मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातस्तथा मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण मार्गशीर्षबहुलषष्ठ्यां निष्क्रान्तस्तथा मूल // 546 //