________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 544 // पशममध्ययन पञ्चस्थानम्, प्रथमोद्देशकः सूत्रम् 410 हेत्वहेतुज्ञानाज्ञानकेवल्यनुचराणि अज्ञानमरणं मिथ्याष्टित्वेनाज्ञातहेतुतद्गम्यभावस्य मरणं तन्मियते-करोति यश्चैवंविधः सोऽपि हेतुरेवेति पञ्चमो हेतुर्विधित एवोक्त इति 1 तथा पञ्च हेतवस्तत्र यो हेतुना- धूमादिनाऽनुमेयमर्थं जानाति स हेतुरेव, एवं यः पश्यतीत्यादि। तदेव कुत्साद्वारेण मिथ्यादृष्टिमाश्रित्य हेतुचतुष्टयमाह- हेतुना न जानात्यनुमेयम्, नञः कुत्सार्थत्वादेवासम्यगवगच्छतीत्यर्थः, एवं न पश्यतीत्यादि, तथा हेतुना-मरणकारणेन योऽज्ञानमरणं म्रियते स हेतुरेवेति पञ्चमो हेतुरिति / तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुंसम्यग्जानाति स हेतुरेवेत्येवमन्येऽपि, नवरं हेतुं-हेतुमत् छद्मस्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिमरणमिति, एवं तृतीयान्तसूत्रमपि३। इह सूत्रद्वयेऽपि हेतवः स्वरूपत उक्ताः 4, (मिथ्यादृष्टिसम्यग्दृष्टियुग्मापेक्षया सूत्रयुगलता अन्यथा सूत्रचतुष्टयं) तथा पञ्चाहेतवो यः सर्वज्ञतया अनुमानानपेक्षः स धूमादिकं हेतुं नायं हेतुर्ममानुमानोत्थापक इत्येवं जानातीत्यतोऽहेतुभूतं तं जाननहेतुरेवासावुच्यते, एवं दर्शनबोधाभिसमागमापेक्षयाऽपि / तदेवम(व अ)हेतुचतुष्टयं / छद्मस्थमाश्रित्य देशनिषेधत आह- अहेतु मिति, धूमादिकं हेतुमहेतुभावेन न जानाति-न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थो, नसो देशनिषेधार्थत्वाद्, ज्ञातुश्चावध्यादिकेवलित्वेनानुमानाव्यवहर्तृत्वादित्येकोऽयमहेतुर्देशप्रतिषेधत उक्त एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयो, नबुध्यते-न श्रद्धत्ते इति तृतीयो, नाभिसमागच्छतीति चतुर्थः, तथा अहेतुमध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणं-अनुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् तस्य, अयंचस्वरूपत एव पञ्चमोहेतुरुक्तः५। तथा पञ्चातवो योऽहेतुना- हेत्वभावेन अवध्यादि केवलित्वाद् जानात्यसावहेतुरेवेत्येवं पश्यतीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं देशप्रतिषेधत आह-तथा अहेतुना-उपक्रमाभावेन छद्मस्थमरणं म्रियत इति (c) हेत्वभावेन केवलि० (मु०)।