________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 542 // छद्मस्थ नति बलातविछिनाम शादिकम इव उन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वाद्, उन्मत्तक एव वा उन्मत्तकभूतो, भूतशब्दस्य प्रकृत्यर्थत्वाद्, उदीर्णका पशममध्ययनं यतोऽयमुन्मत्तकभूतः पुरुषः तेन कारणेन मे इति मामेषोऽयमाक्रोशति-शपति, अपहसति- उपहासंकरोति, अपघर्षति वा- पञ्चस्थानम्, प्रथमोद्देशक: अपघर्षणं करोति, निश्छोटयति-सम्बन्ध्यन्तरसम्बद्धहस्तादौ गृहीत्वा बलात् क्षिपति, निर्भर्त्सयति दुर्वचनैर्बध्नाति रज्ज्वादिना, सूत्रम् 409 रुणद्धि कारागारप्रवेशादिना, छवे:- शरीरावयवस्य हस्तादेश्छेदं करोति, मरणप्रारम्भः प्रमारो- मूर्छाविशेषो मारणस्थानं / केवलिवातं नयति- प्रापयतीति अपद्रावयति-मारयति अथवा प्रमारं- मरणमेव उवद्दवेइ त्ति उपद्रवयति उपद्रवं करोतीति, पतगृहं परीषहसहनपात्रं कम्बलं- प्रतीतं पादप्रोञ्छनं- रजोहरणं आच्छिनत्ति- बलादुद्दालयति विच्छिनत्ति विच्छिन्नं करोति, दूरे व्यवस्थापयती- कारणानि त्यर्थः, अथवा वस्त्रमीषच्छिनत्ति आच्छिनत्ति, विशेषेण छिनत्ति विच्छिनत्ति, भिनत्ति-पात्रं स्फोटयति अपहरति-चोरयति, वाशब्दाः सर्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानम्, इदंचाक्रोशादिकम्, इह प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यमुपसर्गविवक्षायांतुमानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति 1 / तथा यक्षाविष्टो- देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयं 2, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्मवशवर्ती ममं च णं ति मम पुनस्तेनैव- मानुष्यकेण भवेनजन्मना वेद्यते- अनुभूयते यत्तत्तद्भववेदनीयं कर्म उदीर्णं भवति- अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयं 3, तथा एष बालिशः पापाभीतत्वात्करोतु नामाक्रोशनादि मम पुनरसहमानस्य किं मन्ने त्ति मन्ये इति निपातो वितर्कार्थः कज्जइ त्ति सम्पद्यते, इह विनिश्चयमाह- एगंतसो त्ति एकान्तेन सर्वथा पापं कर्म- असातादि क्रियते संपद्यत इति चतुर्थम्, तथा अयं तावत् पापं बध्नाति मम चेदंसहतो निर्जरा क्रियत इति पञ्चमम्, इच्चेएही त्यादि निगमनमिति, शेषं सुगमम् / छद्मस्थविपर्ययः केवलीति तत्सूत्रम्, तत्र च क्षिप्तचित्तः- पुत्रशोकादिना नष्टचित्तः, दृप्तचित्तः-पुत्रजन्मादिना दर्पवञ्चित्त उन्मत्त एवेति, मां