________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 929 // दशममध्यय दशस्थानम्, सूत्रम् 777 उपसर्गाद्या श्वर्याणि तथा भगवतोमहावीरस्य वन्दनार्थमवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोःशाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति तथा हरेः- पुरुषविशेषस्य वंश:- पुत्रपौत्रादिपरम्परा हरिवंशस्तल्लक्षणं यत्कुलं तस्योत्पत्तिहरिवंशकुलोत्पत्तिः कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति, श्रूयते हि भरतक्षेत्रापेक्षया यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तम्, तच्च पुण्यानुभावाद्राज्यं प्राप्तम्, ततो हरिवर्षजातहरिनाम्नो पुरुषाद्यो वंशः स तथेति 7, तथा चमरस्य- असुरकुमारराजस्योत्पतनं- ऊर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरि सौधर्मव्यवस्थितं शक्रं ददर्श, ततो मत्सराध्मातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थमेकरात्रिकी प्रतिमां प्रतिपन्नं सुंसुमारनगरोद्यानवर्त्तिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्य विरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नं प्रहरणं परितो भ्रमयन् गर्जन्नास्फोटयन् देवांस्त्रासयन्नुत्पपात, सौधर्मावतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रमाक्रोशयामास, शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुरत्स्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच, सच भयात् प्रतिनिवृत्त्य भगवत्पादौ शरणं प्रपेदे, शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयात् शीघ्रमागत्य वज्रमुपसंजहार, बभाण च मुक्तोऽस्यहो भगवतः प्रसादाद् नास्ति मत्तस्ते भयमिति 8, तथाऽष्टाभिरधिकं शतमष्टशतम्, अष्टशतंचते सिद्धाश्व-निर्वृत्ता अष्टशतसिद्धा, इदमप्यनन्तकालजातमित्याश्चर्यमिति 9, तथा असंयता:- असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषु पूजा-सत्कारः, सर्वदा हि किल संयता एव पूजार्हा, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यम्, अत एवाह-दशाप्येतानि अनन्तेन कालेन- अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति / अनन्तरसूत्रे // 929 //