SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-२ // 928 // दशममध्ययन दशस्थानम्, सूत्रम् 777 उपसर्गाद्याश्वर्याणि श्रीस्थानाङ्गनोपसर्गभाजनमपितु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति 1, तथा गर्भस्य उदरसत्त्वस्य हरणं- उदरान्तरसङ्कामणं गर्भहरणमेतदपि तीर्थकरापेक्षयाऽभूतपूर्वं सद्भगवतो महावीरस्य जातम्, पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात्रिशलाभिधानाया राजपत्न्या उदरे सङ्कामणाद्, एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति 2, तथा स्त्री- योषित्तस्यास्तीर्थकरत्वेनोत्पन्नायास्तीर्थ- द्वादशाङ्गसङ्गो वा स्त्रीतीर्थम्, तीर्थं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मल्ल्यभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पन्ना तीर्थं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति 3, तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतृलोकः, श्रूयते हि भगवतोवर्द्धमानस्य जृम्भिकग्रामनगराबहिरुत्पन्नकेवलस्य तदनन्तरं मिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्वनिना कल्पपरिपालनायैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यमिति 4, तथा कृष्णस्य- नवमवासुदेवस्य अवरकङ्का राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्यम्, श्रूयते हि पाण्डवभार्या द्रौपदी धातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामर्थ्येनापहृता, द्वारकावतीवास्तव्यश्च कृष्णो वासुदेवो नारदादुपलब्धतव्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणंजलधिमतिक्रम्य पद्मराज रणविमद्देन विजित्य द्रौपदीमानीतवान्, तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म, ततस्तेन पाञ्चजन्यः पूरितः कृष्णेनापि तथैव ततः परस्परशङ्खशब्दश्रवणमजायतेति 5, // 928 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy