SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययनं दशस्थानम्, सूत्रम् 763-766 केवल्य // 917 // नुत्तराणि, कुरुमहाद्रुमतदधिपाः, अवगाढ| दुष्षमा यक्षयाद्वीर्यम्, इह च तपःक्षान्तिमुक्त्यार्जवमाईवलाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति, सामान्यविशेषयोश्च कथञ्चिद्भेदाद् भेदेनोपात्तानीति। केवली च मनुष्यक्षेत्र एव भवतीति दशस्थानकानुपातिपदार्थं समये त्यादिकं पुक्खरवरदीवड्डपच्चच्छिमद्धेवी त्येतदन्तं समयक्षेत्रप्रकरणमाह, कण्ठ्यं चैतद्, नवरं मत्तंगे त्यादि गाथा, मत्तं- मदस्तस्याङ्गकारणं मदिरा तद्ददतीति मत्ताङ्गदाः / चः समुच्चये, भिंग त्ति भृतं- भरणं पूरणं तत्राङ्गानि-कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षा अपि भृताङ्गाः, प्राकृतत्वाच्च भिंगा उच्यन्ते, त्रुटितानि-तूर्याणि तत्कारणत्वात् त्रुटिताङ्गास्तूर्यदायिन, उक्तंच-मत्तंगेसु य मज्जं 1 (संपज्जइ) भायणाणि भिंगेसु / तुडियंगेसु य संगततुडियाइं बहुप्पगाराई 3 // 1 // दीवजोइचित्तंगा इति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीप:- प्रकाशकं वस्तु तत्कारणत्वाद्दीपाङ्गा, ज्योतिरग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्योतिरिव यद्वस्तु सौम्यप्रकाशमिति भावस्तत्कारणत्वाद् ज्योतिरङ्गास्तथा चित्रस्य- अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गास्तथा चित्रा- विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, उक्तं च-दीवसिहाजोइसनामया य 4-5 एए करिति उज्जोयं / चित्तंगेसु य मल्लं 6 चित्तरसा भोयणट्ठाए 7 // 1 // मणीनां- मणिमयाभरणानां कारणत्वान्मण्यङ्गा आभरणहेतवो, गेहं- गृहं तद्वदाकारो येषां ते गेहाकारा, अणियय त्ति वस्त्रदायिनः, उक्तं च-मणियंगेसु य भूसणवराई 8 भवणाई भवणरुक्खेसु 9 / आइन्नेसु य धणियं वत्थाई बहुप्पगाराइं१०॥१॥इति / कालाधिकारादेव कालविशेषभाविकुलकरवक्तव्यतामाह 0 मद्यं मद्याङ्गेषु 1 भृङ्गेषु भाजनानि 2 / तूर्याङ्गेषु च संगततूर्याणि बहुप्रकाराणि // 1 // 0 दीपशिखाज्योतिःसनाम्नी कुरुत उद्योतमेते / चित्राङ्गेषु च माल्यं भोजनार्थं चित्ररसाः॥१॥ 0 मण्यङ्गेषु च वरभूषणानि भवनवृक्षेषु वराणि भवनानि / आकीर्णेषु च बहुप्रकाराणि वस्त्राणि गाढम्॥१॥ सुषमा चिह्नानि, सुषमसुषमाः, कल्पवृक्षभेदाः // 212
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy