SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 915 // दशममध्ययन दशस्थानम्, सूत्रम् 761-762 ग्रामादिस्थविराः आत्मजादिपुत्राः // सूत्रम् 762 // दसे त्यादि, स्थापयन्ति-दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविराः, तत्र ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्स्थविरा इति 1-2-3 प्रशासति-शिक्षयन्ति ये ते प्रशास्तारो- धर्मोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविरा 4, ये कुलस्य गणस्य सङ्घस्य चलौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भक्तुश्च निग्राहकास्ते तथोच्यन्ते५-६-७,जातिस्थविराः षष्टिवर्षप्रमाणजन्मपर्यायाः८,श्रुतस्थविरा:-समवायाद्यङ्गधारिणः 9, पर्यायस्थविरा- विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति 10 // स्थविराश्च पुत्रवदाश्रितान् परिपालयन्तीति पुत्रनिरूपणायाह- दस पुत्ते त्यादि, पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः- सूनुः / तत्र आत्मन:-पितृशरीराज्जात आत्मजो, यथा भरतस्यादित्ययशाः 1, क्षेत्रं- भार्या तस्या जातः क्षेत्रजो, यथा पण्डोः पाण्डवा लोकरूढ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तुपण्डोर्धर्मादिभिर्जनितत्वादिति 2, दिन्नए त्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनोऽनिलवेगः श्रूयते, स च पुत्रवत्पुत्रः, एवं सर्वत्र 3, विण्णए त्ति विनयितः शिक्षां ग्राहित, उरसे त्ति उपगतो जातो रसः- पुत्रस्नेहलक्षणो यस्मिन्पितृस्नेहलक्षणो वा यस्यासावुपरस उरसि वा- हृदये स्नेहाद्वर्त्तते यः स औरस: 5, मुखर एव मौखरो- मुखरतया चाटुकरणतोय आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भावः 6, शोण्डीरो यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते 7, अथवाऽऽत्मज एव गुणभेदाद्भिद्यते, तत्र विन्नए त्ति विज्ञकः- पण्डितोऽभयकुमारवद्, उरसे त्ति उरसा वर्त्तते इति औरस:- बलवान् बाहुबलीवत्, शोण्डीरः- शूरो वासुदेववद् गर्वितो वा शौण्डीरः 'शौड गर्व' इति वचनात्, संवुड्ढे त्ति संवर्द्धितो भोजनदानादिना अनाथपुत्रक 8, उवजाइय // 915 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy