SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 913 // दशममध्ययनं दशस्थानम्, सूत्रम् 759 आशंसाप्रयोगाः श्रमणश्च- साधुः सुश्रमणस्तद्धावस्तत्ता तया 8, तथा प्रकृष्टं प्रशस्तं प्रगतं वा वचनं- आगमः प्रवचनं- द्वादशाङ्गं तदाधारो वा सङ्घस्तस्य वत्सलता- हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता तया 9, तथा प्रवचनस्य- द्वादशाङ्गस्योद्भावनं- प्रभावनं प्रावचनिकत्वधर्मकथावादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनं तदेव प्रवचनोद्भावनता तयेति 10 // एतानि चागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगोन विधेय इति तत्स्वरूपमाह दसविहे आससप्पओगे पं० त०- इहलोगासंसप्पओगे 1 परलोगासंसप्पओगे 2 दुहतोलोगासंसप्पतोगे 3 जीवियासंसप्पतोगे 4 मरणासंसप्पतोगे५कामासंसप्पतोगे६भोगासंसप्पतोगे७लाभासंसप्पतोगे 8 पूयासंसप्पतोगे९सक्कारासंसप्पतोगे१०॥सूत्रम् 759 // दसे त्यादि, आशंसनमाशंसा- इच्छा तस्याः प्रयोगो-व्यापारणं करणम्, आशंसैव वा प्रयोगो- व्यापार आशंसाप्रयोगः, सूत्रे च प्राकृतत्वाद् आससप्पओगेत्ति भणितं, तत्र इह-अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये यो वर्त्तते लोकःप्राणिवर्ग:स इहलोकस्तव्यतिरिक्तस्तु परलोकः / तत्रेहलोकं प्रति आशंसाप्रयोगोयथा भवेयमहमितस्तपश्चरणाच्चक्रवर्त्यादिरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रहः कार्यः१, परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणादिन्द्र इन्द्रसामानिको वा 2, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती, अथवा इहलोके-इहजन्मनि किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति 3, एतत्त्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्ति च सामान्यविशेषयोर्विवक्षया भेद इत्याशंसाप्रयोगाणांदशधात्वं न विरुध्यते, तथा जीवितं प्रत्याशंसा-चिरं मे जीवितं भवत्विति जीविताशंसाप्रयोगः४। तथा मरणं प्रत्याशंसा- शीघ्र मे मरणमस्त्विति मरणाशंसाप्रयोग: 5 / तथा कामौ- शब्दरूपे तौ मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोगः 6 / तथा भोगागन्धरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः 7 / तथा कीर्तिश्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः 8 / तथा 1913 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy