SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 912 // दशममध्ययन दशस्थानम्, सूत्रम् 758 आगमिष्यद्भद्रताकारणानि जितिंदियताते 5 अमाइल्लताते 6 अपासत्थताते 7 सुसामण्णताते 8 पवयणवच्छल्लयाते ९पवयणउब्भावणताए १०॥सूत्रम् 758 // दसही त्यादि, आगमिष्यद्-आगामिभवान्तरे भावि भद्रं-कल्याणंसुदेवत्वलक्षणमनन्तरं सुमानुषत्वप्राप्त्या मोक्षप्राप्तिलक्षणंच येषां ते आगमिष्यद्भद्रास्तेषां भाव आगमिष्यद्भद्रता तस्यै आगमिष्यद्भद्रतायै तदर्थमित्यर्थः आगमिष्यद्भद्रतया वा कर्म-शुभप्रकृतिरूपं प्रकुर्वते-बध्नन्ति, तद्यथा-निदायते-लूयते ज्ञानाद्याराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणर्द्धिप्रार्थनाध्यवसानेन तन्निदानमविद्यमानं तद्यस्य सोऽनिदानस्तद्भावस्तत्ता तया हेतुभूतया निरुत्सुकतयेत्यर्थः। 1, दृष्टिसम्पन्नतया- सम्यग्दृष्टितया 2, योगवाहितया- श्रुतोपधानकारितया योगेन वा- समाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही तद्भावस्तत्ता तया 3, क्षान्त्या क्षमत इति क्षान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थं यतोऽसमर्थोऽपि क्षमत इति क्षान्तिक्षमणस्य भावस्तत्ता तया 4, जितेन्द्रियतया- करणनिग्रहेण 5, अमाइल्लयाए त्ति माइल्लोमायावांस्तत्प्रतिषेधेनामायावांस्तद्धावस्तत्ता तया 6, तथा पार्श्वे- बहिर्ज्ञानादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं च-सो पासत्थो दुविहो देसे सव्वे य होइ नायव्वो। सव्वंमि नाणदसणचरणाणं जो उ पासत्थो॥१॥ देसंमि उ पासत्थो सेज्जायरभिहडनीयपिंड च / नीयं च अग्गपिंड भुंजइ निक्कारणे चेव // 2 // इत्यादि, (नियतपिण्डो यथा- मयैतावद्दातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते नीय मिति नित्यः सदा अग्रपिण्डोऽप्रवृत्ते परिवेषणे आदावेव यो गृह्यत इति) पार्श्वस्थस्य भावः पार्श्वस्थता न साऽपार्श्वस्थता तया 7, तथा शोभनः- पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासो Oस पार्श्वस्थो द्विविधो देशतः सर्वतश्च भवति ज्ञातव्यः। ज्ञानदर्शनचरणानां यस्तु पार्श्वस्थः स सर्वपार्श्वस्थः॥ 1 // देशतः पार्श्वस्थः शय्यातराभिहृतनित्यपिण्डानि च। नियतानपिण्डे च निष्कारणे एव भुनक्ति // 2 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy