________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् // 895 // सञ्जादशकम्, ___दस सण्णाओ पं० तं०- आहारसण्णा जाव परिग्गहसण्णा 4 कोहसण्णा जाव लोभसण्णा 8 लोगसण्णा 9 ओहसण्णा 10, दशममध्ययन नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरंजाववेमाणियाणं २४॥सूत्रम् 752 // दशस्थानम्, A नेरइया णं दसविधं वेयणं पच्चणुभवमाणा विहरंति, तं०-सीतं 1 उसिणं 2 खुधं 3 पिवासं 4 कंडु 5 परझं 6 भयं 7 सोगं 8 जरं / 752-753 ९वाहिं १०॥सूत्रम् 753 // दसे त्यादि, संज्ञानं संज्ञा आभोग इत्यर्थो, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा- वेदनीय नारकवेदनाः मोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनयेत्याहारसंज्ञा, तथा भयवेदनीयोदयाद्भयोद्धान्तस्य दृष्टिवदनविकाररोमाञ्चोढ़ेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदोदयान्मैथुनाय स्त्र्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सच्चित्तेतरद्रव्योपादानक्रिया चसंज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयात्तदावेशगर्भाप्ररूक्षमुखनयनदन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयाल्लालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, याचसशा,8॥८९५॥ तथा तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा 10, ततश्चौघसंज्ञा दर्शनोपयोगोलोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति- सामान्यप्रवृत्तिरोघसंज्ञा लोकदृष्टिर्लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधि