________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 884 // दशस्थानम्, सूत्रम् 748 प्रत्याख्यान दशकम ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयम्, एतच्च प्रथमसंहननानामेवेति, अभ्यधायिच-मासे मासे य तवो अमुगो दशममध्ययन अमुगदिवसे य एवइओ। हट्टेण गिलाणेण व कायव्वो जाव ऊसासो॥१॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं / जंगिण्हतऽणगारा | अणिस्सियप्पा अपडिबद्धा॥२॥ चोद्दसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे। एयं वोच्छिन्नं खलु थेरावि तया करेसीया॥३॥ (आव०नि०१५८५-८७) इति 4, सागारं ति आक्रियन्त इत्याकारा:- प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं 5, अणागारं ति अविद्यमाना आकारा- महत्तराकारादयो निश्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारम्, तत्रापि अनाभोगसहसाकारावाकारौ स्याताम्, मुखेऽङ्गल्यादिप्रक्षेपसम्भवादिति 6, परिमाणकडं ति परिमाणं-सङ्खयानंदत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतमिति, यदाह-दत्तीहि व कवलेहिं व घरेहिं भिक्खाहिं अहव दव्वेहिं। जो भत्तपरिचायं करेइ परिमाणकडमेयं // 1 // (आव०नि०१५९०) इति 7, निरवसेसं ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तद् निरवशेषं वा-सर्वमशनादितद्विषयत्वानिरवशेषमिति, अभिहितञ्च-सव्वं असणं सव्वं च पाणगं सव्वखज्जपेजविहिं। परिहर सव्वभावेण एवं भणियं निरवसेसं॥१॥(आव०नि०१५९१) इति 8, संएययं चेव त्ति केतनं केत:-चिह्नमङ्गष्ठमुष्टिग्रन्थिगृहादिकं स एव केतकः सह केतकेन सकेतकं ग्रन्थ्यादिसहितमित्यर्थः, भणितं च-अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिबुगजोइक्खे। भणियं सकेयमेयं धीरेहि अणंतणाणीहिं॥ 1 // (आव०नि० 1592) इति 9 अद्धाए त्ति अद्धायाः- कालस्य पौरुष्यादिकालमान& Oमासि मासि चामुकं तपोऽमुकदिवसे इयन्तं कालम्। हृष्टेन वा ग्लानेन वा कर्त्तव्यं यावदुच्छ्रासः ॥१।एतन्नियन्त्रितं धीरपुरुषप्रज्ञप्तं प्रत्याख्यानम् / यदनिश्रिता त्मानोऽप्रतिबद्धा अनगारा गृह्णन्ति // 2 // चतुर्दशपूर्विजिनकल्पिकयोरेतत् प्रथम एव संहनने / तदा स्थविरा अपि अकार्षुटुंच्छिन्नं च एतद् // 3 // 0 दत्तिभिः कवलैर्वा 8 गृहैर्भिक्षाभिरथवा द्रव्यैः। यो भक्तपरित्यागं करोत्येतत् परिमाणकृतम्॥१॥0 सर्वमशनं सर्वं च पानकं सर्वखाद्यपेयविधिम् सर्वभावेन परिहरति एतन्निरवशेष भणितम् // 1 // 80 अष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्तिबुकदीपानाश्रित्य / प्रत्याख्यानमेतत्संकेत भणितं धीररनन्तज्ञानिभिः / / 1 / /