________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ | // 531 // स्तथा प्रतिमया- एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी वीरासनं भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपम्, दुष्करंच तदिति, अत एव वीरस्य- साहसिकस्यासनमिति वीरासनमुक्तं तदस्यास्तीति वीरासनिकस्तथा निषद्या- उपवेशनविशेषः, साच पञ्चधा, तत्र यस्यांसमंपादौ पुतौच स्पृशतः सा समपादपुता 1 यस्यां तु गोरिवोपवेशनं सा गोनिषधिका 2 यत्र तु पुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्यास्ते सा हस्तिसुण्डिका 3 पर्यङ्कार्द्ध-पर्यङ्का च प्रसिद्धा, निषद्यया चरति नैषधिक इति, दण्डस्येवायति:- दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकस्तथालगण्डं किल दुःसंस्थितं काष्ठंतद्वन्मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थो यःशेते तथाविधाभिग्रहात् सलगण्डशायी, तथा आतापयति- आतापनांशीतातपादिसहनरूपांकरोतीत्यातापकस्तथा न विद्यते प्रावृतं- प्रावरणमस्येत्यप्रावृतकस्तथा न कण्डूयत इत्यकण्डूयकः, स्थानातिग इत्यादिपदानां कल्पभाष्यव्याख्येयं- उद्धट्ठाणं ठाणाइयं तु पडिमा / य होंति मासाई। पंचेव णिसेज्जाओ तासि विभासा उ कायव्वा ॥१॥वीरासणं तु सीहासणेव्व जहमुक्कजाणुगणिविठ्ठो। डंडे लगण्डउवमा आययकुजे य दोहंपि॥२॥ (बृहत्क० ५९५३-५४)आयावणा य तिविहा उक्कोसा मज्झिमा जहन्ना य। उक्कोसा उ निवन्ना निसन्न मज्झा ठिय जहन्ना // 3 // तिविहा होइ निवन्ना ओमंथिय पास तइय उत्ताणा (बृहत्क० ५९४५-४६)इति निषण्णापि त्रिविधागोदुह उक्कुडपलियंकमेस तिविहा य मज्झिमा होइ। तइया उ हत्थिसोंडगपायसमपाइया चेव॥ 4 // इति इयं च निषण्णादिका स्थानादिकमेवोर्ध्वस्थानं प्रतिमा च भवन्ति मासाद्याः। निषद्याः पञ्चैव तासां विभाषा तु कर्त्तव्या॥१।। ऊर्द्धजानुको(मुक्तजानुकः)यथा सिंहासने निविष्टः वीरासनम् / दण्डेन लगण्डेन उपमा द्वयोरपि आयतकुब्जत्वयोः॥२॥आतापना च त्रिविधोत्कृष्टा मध्यमा जघन्या च / सुप्तस्योत्कृष्टा निषण्णा मध्या स्थिता जघन्या ॥३॥निर्वर्णा त्रिविधा भवति अवमन्थिता पार्था तथा उत्ताना। (निषण्णा) गोदोहिकोत्कुटपर्यङ्का एषा त्रिविधा च मध्यमा भवति / तृतीया तु हस्तिसोण्डिका पादसमपादिकाचैव // 4 // पशममध्ययन पथस्थानम्, प्रथमोद्देशकः सूत्रम् 396-397 दुराख्यात-स्वाख्यातादिभिर्दुर्गमसुगमे,क्षान्त्यादिसत्यादिउत्क्षिप्तचरत्वादि-अज्ञातचरत्वादिउपनिहितादिआचाम्लादिअरसाहारादिअरसजीवित्वादिस्थानातिदानादिदण्डायतिकादीनि 50 अभ्यनुज्ञातानि, अग्लान्या दशविधेन वैयावृत्त्येन महानिर्जरा // 531 //