________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 530 // हस्तभाजनादिना दीयमानं कल्पिकं कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिकः, तथा तज्जातेन देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति, उपनिधीयत इत्युपनिधिः- प्रत्यासन्नं यद्यथाकथञ्चिदानीतं तेन चरति तद्हणायेत्यर्थः इत्योपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति सप्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाण्प्रत्यये औपनिहित इति, तथा शुद्धा- अनतिचारा एषणा-शङ्कितादिदोषवर्जनरूपा संसट्ठमसंसढे त्यादिसप्तप्रकारा अन्यतरा वा तया चरतीत्युत्तरपदवृद्ध्या शुद्धषणिकः,सङ्ख्याप्रधानाः- परिमिता एव दत्तयः- सकृद्भक्तादिक्षेपलक्षणा ग्राह्याः यस्य स सङ्ख्यादत्तिको, दत्तिलक्षणश्लोकः- दत्ती उ जत्तिए वारे, खिवई होंति तत्तिया। अवोच्छिन्नणिवायाओ, दत्ती होइ दवेतरा॥ १॥इति तथा दृष्टस्यैव भक्तादेलाभस्तेन चरतीति तथैव दृष्टलाभिकः पृष्टस्यैव साधो! दीयते ते? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः, आचाम्लं-समयप्रसिद्धं तेन चरतीत्याचाम्लिको, निर्गतो घृतादिविकृतिभ्यो यः स निर्व्विकृतिकः, पुरिमार्द्ध- पूर्वाह्नलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स तथा, परिमितो- द्रव्यादिपरिमाणतः पिण्डपातो- भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिको, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य सक्तुकादिसम्बन्धिनः पातो-लाभो यस्यास्ति स भिन्नपिण्डपातिकः / ग्रहणानन्तरमभ्यवहरणं भवतीत्यत एतदुच्यते- अरसंहिङ्वादिभिरसंस्कृतमाहारयतीत्यरसोवाऽऽहारो यस्यासावरसाहारः, एवं सर्वत्र, नवरं विरसं-विगतरसं पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेन जीवितुं शीलमाजन्मापि यस्य स तथा, एवमन्यत्रापि / ठाणाइए त्ति स्थानं- कायोत्सर्गस्तमतिददाति-प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति, उत्कुटुकासनं-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिक®यावतीराः क्षिपति तावत्यो दत्तयो भवन्ति / अव्युच्छिन्ननिपाताद्वेतरयोर्दत्तिर्भवति // 1 // पशममध्ययन पञ्चस्थानम्, प्रथमोद्देशक: सूत्रम् 396-397 दुराख्यात-स्वाख्यातादिभिर्दुर्गमसुगमे,क्षान्त्यादिसत्यादिउत्क्षिपचरत्वादि-अज्ञातचरत्वादिउपनिहितादिआचाम्लादिअरसाहारादिअरसजीवित्वादिस्थानातिदानादिदण्डायतिकादीनि 50 अभ्यनुज्ञातानि, अग्लान्या दशाविधेन वैयावृत्त्येन महानिर्जरा // 530 //