________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ पञ्चममध्ययन पक्षस्थानम्, प्रथमोद्देशकः सूत्रम // 529 // पञ्चा०५/४०-४१) इति ब्रह्मचर्ये- मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोक्तैः सह दशविधः श्रमणधर्म इति, अन्यत्र त्वयमेवमुक्तः-खंती य मद्दवऽज्जव मुत्ती तवसंजमे य बोद्धव्वे। सच्चं सोयं आकिंचणंच बंभंच जइधम्मो॥१॥ (पञ्चा०११/ 19, आवसं) इति इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसङ्केपाभिधानस्य भेदाः उक्खित्तचरए इत्यादिना अभिधीयन्ते,. तत्र उत्क्षिप्त-स्वप्रयोजनाय पाकभाजनादुद्भुतं तदर्थमभिग्रहविशेषाच्चरति- तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तं- अनुद्धत्तम्, अन्ते भवमान्तं-भुक्तावशेषं वल्लादिप्रकृष्टमान्तम्, प्रान्तं-तदेव पर्युषितम्, रूक्षं-नि:स्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चाद्यौ भावाभिग्रहावितरे. द्रव्याभिग्रहाः, यतोऽभाणि-उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होति / गायंतो व रुयंतो जं देइ निसण्णमाई वा॥१॥ (पञ्चव०३०३) तथा लेवडमलेवडं वा अमुगं दव्वं च अज्ज घेच्छामि / अमुगेण उ दव्वेणं अह दव्वाभिग्णहो नाम॥२॥ (पञ्चव० 298) इति एवमन्यत्रापि विशेष ऊह्य इति, अज्ञातोऽनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभावः सन् चरति-भिक्षार्थमटतीत्य- दिस्थानातिज्ञातचरकस्तथा अन्नइलायचरए त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उक्तः, एवंविधः सन्, अथवा अन्नं विना तिकादीनि 50 ग्लायकः-समुत्पन्नवेदनादिकारण एवेत्यर्थोऽन्यस्मै वाग्लायकाय भोजनार्थ चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरको-8 न्यग्लायकचरको वा, क्वचित् पाठः अन्नवेल त्ति तत्रान्यस्यां- भोजनकालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चरतीत्यादि दृश्यम्, अयं च कालाभिग्रह इति, तथा मौनं-मौनव्रतं तेन चरति मौनचरकः,तथा संसृष्टेन-खरण्टितेनेत्यर्थो Oक्षान्तिश्च माईवमार्जवं मुक्तिस्तपः संयमश्च बोद्धव्यः / सत्यं शौचमाकिञ्चन्यं च ब्रह्म च यतिधर्मः॥१॥ 0 अनुगृतम् (मु०)। 0 उत्क्षिप्तादिचरकत्वादिका अभिग्रहा भावयुता भवन्ति / गायन् वा रुदन् निषण्णादिर्वा यद्ददाति // 1 // लेपकृदलेपकृद्वाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि / अमुकेन तु द्रव्येणैष द्रव्याभिग्रहो नाम // 1 // 396-397 दुराख्यात-स्वाख्यातादिभिर्दुर्गमसुगमे, क्षान्त्यादिसत्यादिउत्क्षिप्तचरत्वादि-अज्ञातचरत्वादिउपनिहितादिआचाम्लादिअरसाहारादिअरसजीवित्वा दानादिदण्डाय अभ्यनुज्ञातानि, अग्लान्या दशविधेन वैयावृत्त्येन महानिर्जरा // 529 //