SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ दशममध्ययनं श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् दशस्थानम्, भाग-२ // 859 // जघन्यतोऽपि मा भूदतः उक्कोसेणं त्यभिहितम्, दश योजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, उस्सेहपमाणाउ मिणे देह(बृहत्सं० 349) इति वचनात्, शरीरस्यावगाहना-येषु प्रदेशेषु शरीरमवगाढंसा शरीरावगाहना, सा च तथाविधनद्या(दा)दिपद्मनालविषया द्रष्टव्येति / जलचरे त्यादि, इह जलचरा मत्स्याः गर्भजा इतरे च दृश्याः / मच्छजुयले सहस्स (बृहत्सं०३० मिति वचनाद्, एते च किल स्वयम्भूरमण एव भवन्तीति / उरगे त्यादि उरःपरिसा इह गर्भजा महोरगा दृश्याः। उ गब्भजाईसु (बृहत्क्षे० 307) / इति वचनाद्, एते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, एवं चेव त्ति दसजोयणसयाई सरीरोगाहणा पन्नत्ते ति सूत्रं वाच्यमित्यर्थः / एवंविधाश्चार्था जिनैर्दर्शिता इति प्रकृताध्ययनावतारि जिनान्तरसूत्रं सम्भवे त्यादि, सुगमम् / अभिहितप्रमाणाश्चावगाहनादयोऽन्येऽपि पदार्था जिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह- दसविहे त्यादि नामानन्तकंअनन्तकमित्येषा नामभूता वर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तकंस्थापनानन्तकं-यदक्षादावनन्तकमिति स्थाप्यते, द्रव्यानन्तकं-जीवद्रव्याणांपुद्गलद्रव्याणांवा यदनन्तत्वम्, गणनानन्तकं यदेको द्वौत्रय इत्येवं सङ्ग्याता असङ्ख्याता अनन्ता इति सङ्ख्यामात्रतया सङ्ख्यातव्यानपेक्षंसङ्ख्यानमात्रं व्यपदिश्यत इति, प्रदेशानन्तकं- आकाशप्रदेशानां यदानन्त्यमिति, एकतोऽनन्तकमतीताद्धा अनागताद्धा वा, द्विधाऽनन्तकं सर्वाद्धा, देशविस्तारानन्तकमेक आकाशप्रतरः, सर्वविस्तारानन्तकं-सर्वाकाशास्तिकाय इति,शाश्वतानन्तकमक्षयंजीवादिद्रव्यमिति / एवंविधार्थाभिधायकंपूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाह- उप्पाये त्यादि, उत्पादपूर्वं प्रथमं तस्य दश वस्तूनि- अध्यायविशेषा, अस्तिनास्तिप्रवादपूर्वं चतुर्थं तस्य मूलवस्तूनामुपरि चूलारूपाणि वस्तूनि चूलावस्तूनि / पूर्वगतादिश्रुतनिषिद्धवस्तूनांसाधोर्यद्विधा प्रतिषेवा ®उत्सेधप्रमाणेन देहं मिनुयात्। 7 मत्स्ययुगले सहस्रम् / (c) गर्भजातेषूरगेषु / सूत्रम् 729-733 वनस्पतिजलचरस्थलचरशरीरावगाहा, संभवाभिनन्दनान्तरम्, अनन्तदशकम्, उत्पाद-पूर्ववस्त्वस्तिनास्तिपूर्वचूलवस्तूनि, प्रतिसेवाभेदाः, अनालोचनादोषाः, आलोचनाहगुणाः , प्रायश्चित्तानि // 859 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy