________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ दशममध्ययन दशस्थानम्, सूत्रम् 728 देवोत्यातपर्वतप्रमाणम् // 857 // धरणस्से त्यादि प्रथमलोकपालसूत्रे एवं चेव त्तिकरणाद् उच्चत्तेणं दस गाउयसयाई उव्वेहेण मित्यादि सूत्रमतिदिष्टम्, एवं जाव। संखपालस्स त्तिकरणाच्छेषाणां त्रयाणां लोकपालानां कोलवालसेलवालसङ्खवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति / एवं भूयाणंदस्सवित्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यम्, यथा धरणस्येत्यर्थो, भूतानन्दप्रभश्चोत्पातपर्वतोऽरुणोद एव भवति, केवलमुत्तरतः एवं लोगपालाणवि से त्ति से तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वतप्रमाणं यथा धरणलोकपालानामिति भावो, नवरंतन्नामानि चतुःस्थानकानुसारेण ज्ञातव्यानीति, जहा धरणस्से ति यथा धरणस्स एवमिति- तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यम्, किंपर्यन्तानां तेषामित्यतआह- जाव थणियकुमाराणं ति प्रकटम्, किमिन्द्राणामेव नेत्याह'सलोगपालाणं ति, तल्लोकपालानामपीत्यर्थः, सव्वेसि मित्यादि, सर्वेषामिन्द्राणांतल्लोकपालानांचोत्पातपर्वताः सहनामानो भणितव्याः, यथा धरणस्य धरणप्रभः, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, तेच पर्वताः स्थानमङ्गीकृत्यैवं भवन्ति-असुराणं नागाणं उदहिकुमाराण होंति आवासा / अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया॥१॥ दीवदिसाअग्गीणं थणियकुमाराण होंति आवासा॥अरुणवरे दीवंमि उ तत्थेव य तेसि उप्पाया॥२॥ (द्वीपसागर प्र० 220-21) इति, सक्कस्से त्यादि, कुण्डलवरे द्वीपे कुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभयमप्रभवरुणप्रभवैश्रमणप्रभाख्या उत्पातपर्वताःसोमादीनांशक्रलोकपालानां भवन्ति, उत्तरपार्श्वे तु एवमेवेशानलोकपालानामि 0असुराणां नागानामुदधिकुमाराणां भवन्त्यावासाः। अरुणोदके समुद्रे तत्रैव च तेषामुत्पाताः॥ 1 // द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्यावासाः। अरुणवरे द्वीपे तु तत्रैव च तेषामुत्पाताः।। 2 // // 857 //