SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययनं दशस्थानम्, सूत्रम् 728 देवोत्पातपर्वतप्रमाणम् // 856 // सोमस्स महारन्नोजधा सक्कस्स तधा सव्वेसि लोगपालाणं सव्वेसिंच इंदाणंजाव अचुयत्ति, सव्वेसिपमाणमेगं ॥सूत्रम् 728 // चमरस्से त्यादि सुगमम्, नवरं तिगिञ्छिकूडे त्ति तिगिंछी- किंजल्कस्तत्प्रधानकूटत्वात्तिगिच्छिकूटस्तत्प्रधानत्वं च। कमलबहुलत्वात्संज्ञा चेयम्, उप्पायपव्वए त्ति उत्पतनं-ऊर्द्धगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः, सचरुचकवराभिधानात् त्रयोदशात्समुद्राद्दक्षिणतोऽसङ्गयेयान्द्वीपसमुद्रानतिलङ्गय यावदरुणवरद्वीपारुणवरसमुद्रौतयोररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यवगाह्य भवति, तत्प्रमाणंच-सत्तरस एक्कवीसाइं जोयणसयाई सो समुन्विद्धो। दस चेव जोयणसए बावीसे वित्थडो हेट्ठा॥१॥ चत्तारि जोयणसए चउवीसे वित्थडो उ मझंमि। सत्तेव य तेवीसे सिहरतले वित्थडो होइ // 2 // (द्वीपसागर प्र० 166-67) इति, स च रत्नमयः पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः / तस्य च मध्येऽशोकावतंसको देवप्रसाद इति / 'चमरस्से'त्यादि, महारन्नो त्ति लोकपालस्य सोमप्रभ उत्पातपर्वतोऽरुणोदसमुद्र एव भवति, एवं यमवरुणवैश्रमणसूत्राणि नेयानीति / बलिस्से त्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति, यथोक्तं- अरुणस्स उत्तरेणं बायालीसं भवे सहस्साइं। ओगाहिऊण उदहिं सिलनिचओ रायहाणीओ॥१॥ (द्वीपसागर प्र० 211) इति बलिस्से त्यादि, वई त्यादि सूत्रसूचा, एवं च दृश्यं वइरोयणिंदस्स वइरोयणरन्नो सोमस्स य महारन्नो' एवं चेव त्ति अतिदेशः / एतद्भावना- जहे त्यादि, यथा यत्प्रकारं चमरस्स लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भिः सूत्रैरुक्तं तं चेव त्ति तत्प्रकारमेव चतुर्भिः सूत्रः बलिनोऽपि वैरोचनेन्द्रस्यापि वक्तव्यम्, समानत्वादिति, धरणस्से त्यादि, धरणस्योत्पातपर्वतोऽरुणोद एव समुद्रे भवति, सप्तदशैकविंशतियोजनशतानि स समुद्विद्धः / दश चैव योजनशतानि द्वाविंशत्यधिकान्यधो विस्तृतः॥१॥ चतुर्विंशत्यधिकचतुर्योजनशतानि मध्ये विस्तृतः। त्रयोविंशत्यधिकसप्तशतानि शिखरतले विस्तृतो भवति // 2 // 0 अरुणस्योत्तरस्यां द्विचत्वारिंशतं सहस्राण्यवगाह्योदधिं पर्वतस्तत्र चतम्रो राजधान्यः॥ 1 // // 856 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy