SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 854 // प्राणी भूतः सत्त्व, एकाथिकानां वाऽनुयोगो यथा जीवनात्- प्राणधारणाज्जीवः, प्राणानां- उच्छ्रासादीनामस्तित्वात् / दशममध्ययनं प्राणी, सर्वदा भवनाद्भूतः, सदा सत्त्वात्सत्त्व इत्यादि 3, तथा करणाणुओगो त्ति क्रियते एभिरिति करणानि तेषामनुयोगः दशस्थानम्, सूत्रम् 727 करणानुयोगः, तथाहि- जीवद्रव्यस्य कर्तुर्विचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि नैकाकी जीव: द्रव्याद्यनुयोगाः किचन कर्तुमलमिति, मृद्रव्यं वा कुलालचक्रचीवरदण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्य प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोग इति 4, तथा अप्पियाणप्पिए त्ति द्रव्यं ह्यर्पित-विशेषितं यथा जीवद्रव्यम्, किंविधं?संसारीति, संसार्यपि त्रसरूपंत्रसरूपमपि पश्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पितं- अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनर्पितं चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोगः५। तथा भावियाभाविएत्ति भावितं- वासितं द्रव्यान्तरसंसर्गतोऽभावितमन्यथैव यद्, यथा जीवद्रव्यं भावितं किञ्चित्, तच्च प्रशस्तभावितमितरभावितं च, तत्र प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितं चेतरभावितम्, तद् द्विविधमपि वामनीयमवामनीयं च, तत्र वामनीयं यत्संसर्गजं गुणं दोषं वा। संसर्गान्तरेण वमति, अवामनीयं त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्तसंसर्ग वा वज्रतन्दुलकल्पं न वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि, ततश्च भावितं च अभावितं च भाविताभावितम्, एवम्भूतो विचारो द्रव्यानुयोग इति 6, तथा / बाहिराबाहिरे त्ति बाह्याबाह्यम्, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात्तदेवाबाह्यममूर्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि, चैतन्येन वा अबाह्यं जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्मचैतन्यादित्वबाह्यमाध्यात्मिकमितियावदिति, एवमन्यो द्रव्यानुयोग इति 7, तथा सासयासासएत्ति शाश्वताशाश्वतम्, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति 8, तथा तहनाण
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy