SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ दशममध्ययनं दशस्थानम्, सूत्रम् 727 द्रव्याद्यनुयोगा: | // 853 // भाविते 6 बाहिराबाहिरे 7 सासयासासते 8 तहणाणे 9 अतहणाणे १०॥सूत्रम् 727 // दसविहे दविए त्यादि, अनुयोजनं- सूत्रस्यार्थेन सम्बन्धनम् अनुरूपोऽनुकूलो वा योग:- सूत्रस्याभिधेयार्थ प्रति व्यापारो-8 अनुयोगो, व्याख्यानमिति भावः, सच चतुर्द्धा व्याख्येयभेदात् तद्यथा- चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च, तत्र द्रव्यस्य- जीवादेरनुयोगो- विचारो द्रव्यानुयोगः, स च दशधा, तत्र दवियाणुओगे त्ति यजीवादेर्द्रव्यत्वं विचार्यते स द्रव्यानुयोगो, यथा द्रवति- गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैरिति द्रव्यं- गुणपर्यायवानर्थस्तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणा न हि तद्वियुक्तो जीवः कदाचनापि सम्भवति, जीवत्वहानेस्तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वाद् द्रव्यमित्यादि द्रव्यानुयोगः 1, तथा माउयाणुओगे त्ति इह मातृकेव मातृका- प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पदत्रयी तस्या अनुयोगो, यथा उत्पादवज्जीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनाद् अनुत्पादेच वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसापत्तेः / तथा व्ययवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्पादव्ययवदेव तद्न केनापि प्रकारेण ध्रुवं स्यात्तदा अकृताभ्यागमकृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणाभिलापादिभावानामभावप्रसङ्गेन च सकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पादव्ययध्रौव्ययुक्तमात्मद्रव्यमित्यादि मातृकापदानुयोगः 2 / तथा एगट्ठियाणुओग त्ति एकश्चासावर्थश्च- अभिधेयो जीवादिः स येषामस्ति त एकार्थिकाः- शब्दास्तैरनुयोगस्तत्कथनमित्यर्थः, एकार्थिकानुयोगो यथा जीवद्रव्यं प्रति जीवः (r) युक्तमतो द्रव्यमि० (मु०)।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy