________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 849 // स्नेहसूक्ष्म- अवश्यायादीत्यष्टस्थानकभणितमेव इदमपरं गणितसूक्ष्म- गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्, श्रूयते च वज्रान्तं गणितमिति, भङ्गसूक्ष्म भङ्गा-भङ्गका वस्तुविकल्पास्ते च द्विधा- स्थानभङ्गकाः क्रमभङ्गकाश्च, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावतो१ऽन्या भावतो न द्रव्यतो 2 ऽन्या भावतो द्रव्यतश्च 3 अन्यान भावतो नापि द्रव्यतः 4 इति, इतरे तु द्रव्यतो हिंसा भावतश्च 1 द्रव्यतोऽन्या न भावतो 2 न द्रव्यतोऽन्या भावतो 3 ऽन्या न द्रव्यतो न भावतः 4 इति तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्मम्, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति / पूर्वं गणितसूक्ष्ममुक्तमिति तद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादिगङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यश्चेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपि नवरं यावत्करणाद् 'इंदसेणा वारिसेण'त्ति द्रष्टव्यमिति / रायहाणीओ त्ति राजा धीयते-विधीयते अभिषिच्यते यासु ता राजधान्यो- जनपदानां मध्ये प्रधाननगर्यः। चंपा गाहा, चम्पानगरी अङ्गजनपदेषु मथुरा सूरसेनदेशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषु / जनपदेषु, हत्थिणपुरं ति नागपुरं कुरुजनपदे काम्पिल्यं पाञ्चालेषु मिथिला विदेहेषु कौशाम्बी वत्सेषु राजगृहं मगधेष्विति,# एतासुकिल साधवः उत्सर्गतो न प्रविशन्ति तरुणरमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवाद्, मासस्यान्तर्द्विस्त्रि, प्रविशतां त्वाज्ञादयो दोषा इति, एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैताः अर्द्धषड्विंशतावार्यजनपदेषु षड्विंशतेनगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति, व्याख्यातंच दशराजधानीग्रहणे / ग्रहण शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह-दसरायहाणिगहणा सेसाणं सूयणा कया होइ / मासस्संतो दुगतिग ताओ अइंतमि आणाई॥ ७०दीत्यष्टमस्था० (मु०)। 7 दशराजधानीग्रहणाच्छेषाणां सूचना कृता भवति / मासान्तििस्त्रस्ताः प्रविशत आज्ञादि॥ 1 // दशममध्ययन दशस्थानम्, सूत्रम् 716-726 प्राणादीनि भंगान्तानि सूक्ष्माणि, गंगादिसमगतनद्यः, भरतराजधान्यः तत्प्रव्रजिता नृपाश्च, इत्यादि 849 //