________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 844 // वधवध तत्र अंतलिक्खए त्ति अन्तरीक्षं- आकाशं तत्र भवमान्तरीक्षकं स्वाध्यायो- वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति दशममध्ययन तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकं तत्रोल्का- आकाशजा तस्याः पात उल्कापातः तथा दिशो दिशि वा दाहो दिगाहः, दशस्थानम्, सूत्रम् इदमुक्तं भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतोभूमावप्रतिष्ठितो गगनतलवर्तीस दिग्दाह इति, गर्जितं 714-715 जीमूतध्वनिः, विद्युत्-तडित् निर्घातः- साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः / जूयए त्ति सन्ध्याप्रभा चन्द्रप्रभा / अन्तरीक्षौ दारिकास्वाच यद्युगपद् भवतस्तत् जुयगोत्ति भणितम्, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रुत्वमिति भावः / तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अप ध्यायाः, गच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे वाऽज्ञायमाने कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं पञ्चेन्द्रियाकालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं स्वरूपं- दिसिदाहो छिन्नमूलो उक्कसरेहा पयासजुत्ता संयमासंयमाः वा। संझाछेयावरणो जुयओ सुक्के दिणे तिन्नि॥१॥ (आव०नि० 1349) जक्खालित्तं ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्याय कुर्वतां क्षुद्रदेवता छलनां करोति,धूमिका-महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रत्यर्थो, महिका प्रतीता, एतच्च द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात्सर्वमप्कायभावितं करोतीति, रयउग्धाए त्ति विश्रसापरिणामतः समन्ताद्रेणुपतनंरजउद्घातोभण्यते। अस्वाध्यायाधिकारादेवेदमाह-दसविहे ओरालिए इत्यादि, औदारिकस्य-मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकम्, तत्रास्थिमांसशोणितानि प्रतीतानि, तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे चाप्यधीयते, यदाह-सोणियं मंसं चम्म अट्ठीवि य होंति चत्तारि (आव०नि० 1414) इति, क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत्तृतीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेऽहोरात्रं चेति, भावतः सूत्रं O छिन्नमूलो दिगाहः सरेखा प्रकाशयुक्ता वा उल्का / सन्ध्याछेदावरणस्तु यूपक एव शुक्ले त्रीणि दिनानि॥१॥शोणितं मांसं चास्थि भवन्त्यपि चत्वारि / /