________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 527 // सुगमश्चायम्, नवरं पञ्चसु स्थानकेषु- आख्यानादिक्रियाविशेषलक्षणेषु पुरिमा- भरतैरावतेषु चतुर्विंशतेरादिमास्ते च पश्चिमकाश्च-चरमाःपुरिमपश्चिमकास्तेषां जिनानां- अर्हतांदुग्गमं ति दुःखेन गम्यत इति दुर्गम भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थस्तद्भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथे त्यादि, इह चाख्यानं विभजनं दर्शनं तितिक्षणमनुचरणं. चेत्येवं वक्तव्येऽपि येषुस्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृत्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्याना(ख्येया)दीनि विचित्रत्वाच्छब्दप्रवृत्तेराह, दुआइक्ख मित्यादि, तत्र दुराख्येयं- कृच्छ्राख्येयं वस्तुतत्त्वम्, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमाख्याने कृच्छ्रवृत्तिरुक्ता, एवं विभजना-2 दिष्वपि भावनीया, तथा-व्याख्यातेऽपि तत्र दुर्विभजं-कष्टविभजनीयम्, ऋजुजडत्वादेरेव तद्भवति दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं-दुःशका विभावना कर्तुं तस्येत्यर्थः, तथा दुप्पस्सल ति दुःखेन दर्श्यते इति दुर्दर्शम्, उपपत्तिभिर्दुःशकं शिष्याणां प्रतीतावारोपयितुं तत्त्वमिति भावः, दुत्तितिक्खं ति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्ष-परीषहादि दुःशकं परीषहादिकमुत्पन्नं तितिक्षयितुम्, शिष्यं तत्प्रति क्षमां कारयितुमिति भाव इति, दुरणुचरं ति दुःखेनानुचर्यते- अनुष्ठीयत इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः, (कातन्त्रे हिकारितसंज्ञयैव णिगन्तो ज्ञाप्यते) अथवा तेषांतीर्थे दुराख्येयंदुभिजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापिल दुई0 दुस्तितिक्षंदुरनुचरमित्येवं कारितार्थं विमुच्य व्याख्येयम्, तेषामपि ऋजुजडादित्वादिति / मध्यमानांतु सुगम-अकृच्छ्रवृत्तिस्तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वा विहितानुष्ठाने सुखप्रवर्त्तनीयत्वाच्चेति, शेषं पूर्ववद्, नवरमकृच्छ्रार्थ-8 विशिष्टता आख्यानादीनां वाच्या, तथा सुरनुचरन्ति रेफः प्राकृतत्वादिति, नित्यं सदा वर्णितानि फलतः कीर्तितानि पचममध्ययन पक्षस्थानम्, प्रथमोद्देशकः सूत्रम् 396-397 दुराख्यात-स्वाख्यातादिभिर्दुर्गमसुगमे,क्षान्त्यादिसत्यादिउत्क्षिप्तचरत्वादि-अज्ञातचरत्वादिउपनिहितादिआचाम्लादिअरसाहारादिअरसजीवित्वादिस्थानातिदानादिदण्डायतिकादीनि 50 अभ्यनुज्ञातानि, अग्लान्या दशविधेन वैयावत्येन महानिर्जरा // 527 //