________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् 11841 // पर्ययतः। द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य॥२॥ इति, जीवस्य परिणामः इति विग्रहः, सच प्रायोगिकः / तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयान्नारकादिव्यपदेशहेतुस्तत्परिणामश्चाऽऽभवक्षयादिति, सच नरकगत्यादिश्चतुर्विधो, गतिपरिणामेच सत्येवेन्द्रियपरिणामो भवतीति तमाह- इंदियपरिणामे तिसच श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कषायपरिणाम उक्तः, स च क्रोधादिभेदाच्चतुर्विधः, कषायपरिणामेचसति लेश्यापरिणतिर्न तुलेश्यापरिणतौकषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद् भवति, यत उक्तं- मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुवकोडीओ। नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेस्साए॥ 1 // इति अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात् षोडेति, अयं च योगपरिणामे सति भवति, यस्मानिरुद्धयोगस्य लेश्यापरिणामोऽपैति, यतः- समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवतीति लेश्यापरिणामानन्तरं योगपरिणाम उक्तः,सच मनोवाकायभेदानिधेति, संसारिणां च योगपरिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः,सच साकारानाकारभेदाद् द्विधा, सति चोपयोगपरिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, स चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टेनिमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणस्त्रिविधोऽपि विशेषग्रहणसाधाद् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति, ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः, स च विधा-सम्यक्त्वमिथ्यात्वमिश्रभेदात्, सम्यक्त्वेसति चारित्रमिति ततस्तत्परिणाम उक्तः,सच सामायिकादिभेदात् पञ्चधेति, स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टेति 0 शुक्ललेश्याया जघन्या स्थितिर्मुहूर्तार्धं नववर्षोना पूर्वकोटी उत्कृष्टा ज्ञातव्या भवति॥ 1 / / दशममध्ययन दशस्थानम्, सूत्रम् 710-713 मानकारणानि, समाध्यसमाधयः. प्रव्रज्याभेदाः, श्रमणधमा:. वैयावृत्यानि, जीवाजीवपरिणामाः // 841 //