________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 833 // सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यम्, यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जितस्यापिजीवस्येहलोकादि सप्तप्रकारं भयमुत्पद्यते तद्भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तज्जुगुप्साकर्मेति / अनन्तरं कर्मोक्तम्, तद्वशवर्त्तिनश्च नानाकुलकोटीभाजो भवन्तीति कुलकोटिसूत्रे तद्गताश्च कर्म चिन्वन्तीति चयादिसूत्रषट्कम्, कर्मपुद्गलप्रस्तावात् पुद्गलसूत्राणि, सुगमानि चैतानि, नवरं नव जाईत्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणां-योनिद्वाराणां शतसहस्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगा- गोधादय इति / इति नवमस्थानकविवरणम्॥ नवममध्ययन नवस्थानम्, सूत्रम् 694-703 पश्चाद्धागानि नक्षत्राणि, आनतादिविमानोच्चत्वम्, विमलवाहनोचत्वम्, अवसर्पिण्यारम्भऋषभतीर्थान्तरम्, धनदन्ताधायामाः, शुक्रग्रहवीथय:, नोकषायाः, चतुरिन्द्रियभुजपरिसर्पाणां कुलकोट्यः, नवप्रदेशिकादिः // 833 // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीयाङ्गे नवस्थानाख्यं नवममध्ययनं समाप्तमिति // ७०द्वारकाणां (मु०)।