SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाडू श्रीअभय० वृत्तियुतम् भाग-२ // 828 // भणितं च-अच्छेज्जं चाछिंदिय जं सामी भिच्चमाईणं (पञ्चा० 13/14) इति अनिसृष्टं साधारणं बहूनामेकादिना अननुज्ञातं नवममध्ययन दीयमानम्, आह च-अणिसटुं सामन्नं गोट्ठियमाईण दयउ एगस्स (पञ्चा० 13/15) इति अभ्याहृतं स्वग्रामादिभ्य आहृत्य नवस्थानम्, सूत्रम् 693 यद्ददाति, यतोऽवाचि- सग्गामपरग्गामा जमाणियं अभिहडं तय होइ (पञ्चा० 13/13) इति (अध्यवपूरकादीनां स्वरूपमुक्तं न तु श्रेणिकव्युत्पत्तिरित्याह- एषा मित्यादि) एषांशब्दार्थः प्रायः प्रकट एवेति, कान्तारभक्तादय आधाकादिभेदा एव, तत्र कान्तारं- चरित्रादि अटवी तत्र भक्तं- भोजनं यत्साध्वाद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो- रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते, तथा वईलिका- मेघाडम्बरं तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति, प्राघूर्णका- आगन्तुका भिक्षुका एव तदर्थं यद्भक्तं तत्तथा, प्राघूर्णको वा गृही स यद्दापयति तदर्थं / संस्कृत्य तत्तथा, मूलं पुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः- सूरणादिः फलंत्रपुष्यादि बीजं दाडिमादीनां हरितं- मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति / पंचमहव्वइए इत्यादि प्रथमपश्चिमतीर्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेनउभयसन्ध्यमावश्यकेन यः स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्तं च-सपडिक्कमणो धम्मो पुरिमस्स या पच्छिमस्स य जिणस्स। मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं॥१॥ (आव०नि० 1258, बृहत्क० 6425) इति, तथा छ अविद्यमानानि-जिनकल्पिकविशेषापेक्षया असत्त्वादेव स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना / Oभृत्यादिभ्य आच्छिद्य यत्स्वामी दत्ते तदाच्छेद्यम् / 0 गोष्ठ्यादीनां सामान्यमेकस्य ददतोऽनिसृष्टम् // 0 स्वग्रामपरग्रामाद्यदानीतं तदभ्याहृतं भवति // ON पूर्वस्य पश्चिमस्य जिनस्य साधोः सप्रतिक्रमणो धर्मः / मध्यमजिनसाधूनां कारणजाते प्रतिक्रमणम् // 1 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy