________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 827 // नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि निर्वाहा लब्धापलब्धवृत्तयः ।आहाकम्मिए इवत्ति आधाय- आश्रित्य साधून कर्म-सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म तदेवाधाकर्मिकम्, उक्तं च-सच्चित्तं जमचित्तं साहूणऽट्टाए कीरए जं च। अच्चित्तमेव पच्चइ आहाकम्मं तयं भणियं॥१॥ (पञ्चा० 13/7) इह चेकारः सर्वत्रागमिक इतिशब्दो वाऽयमुपप्रदर्शनार्थपरो वा विकल्पार्थः / उद्देसियं ति अर्थिनः पाखण्डिनः श्रमणान्निर्ग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौद्देशिकमिति, उद्देशे भवमौद्देशिकमितिशब्दार्थो, यद्वा तथैव यदुद्धरितं सद् दध्यादिभिर्विमिश्य दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितं- उद्देसिय साहुमाई ओमव्वय भिक्खवियरणं जं च। उद्धरियं मीसेउं तविउ उद्देसियं तं तु॥१॥ (पञ्चा० 13/8) इति मीसजाए व त्ति गृहिसंयतार्थमुपस्कृततया मिश्रं जातं- उत्पन्नं मिश्रजातम्, यदाह- पढम चिय गिहिसंजय मीसं उवक्खडइ मीसग / तं तु // (पञ्चा० 13/9) इति अज्झोयरए त्ति स्वार्थमूलाद्रहणे साध्वाद्यर्थं कणप्रक्षेपणमध्यवपूरकः, आह च-सट्टा मूलद्दहणे अज्झोयर होइ पक्खेवो। (पञ्चा० 13/15) इति, पूईए त्ति शुद्धमपि कर्माद्यवयवैरपवित्रीकृतं पूतिकम्, उक्तंच-कम्मावयवसमेयं संभाविज्जइ जयं तु तं पूई। (पञ्चा० 13/9) इति कीए त्ति द्रव्येण भावेन वा क्रीतं-स्वीकृतं यत्तत्क्रीतमिति, यतोऽभ्यधायिदव्वाइएहिँ किणणं साहूणट्ठाइ कीयं तु ॥(पञ्चा० 13/11) इति पामिच्चं अपमित्यकं-साध्वर्थमुद्धारगृहीतं, यतोऽभिहितं- पामिच्चं साहूणं अट्ठा उच्छिदिउं दियावेइ (पञ्चा० 13/12) इति आच्छेद्यं बलाद् भृत्यादिसत्कमाच्छिद्य यत्स्वामी साधवे ददाति, 0साध्वर्थ सचित्तं यदचित्तं क्रियते। अचित्तस्य पाकादि वा तदाधाकर्म भणितम् // 1 // अवमात्यये साध्वादीनुद्दिश्य यद्भिक्षावितरणं यद्वा / उद्धृतं मिश्रयित्वा तापयित्वा दानं तदौदेशिकमेव // 1 // प्रथममेव गृहिसंयतमिश्रमुपस्करोति तन्मिश्रमेव // मूलात् स्वार्थं पाके प्रक्षेपः साध्वर्थमध्यवपूरकः / / ७आधाकर्मावयवसमेतं संभाव्यते यत्तत्पूतिकम् // ॐ द्रव्याद्यैः क्रीणनं साध्वर्थं तत्क्रीतन्तु // 0 साध्वर्थम् उद्यतकं गृहीत्वा ददाति प्रामित्यकम्। 8