SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि ||826 // पासइ त्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च देवादिग्रहणं प्रधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाहसव्वलोए इत्यादि, चयणं ति वैमानिकज्योतिष्कमरणमुपपातं- नारकदेवानां जन्म तर्क-विमर्श मन- श्चित्तं मनसि भवं मानसिकं-चिन्तितं वस्तु भुक्तमोदनादिकृतं घटादि प्रतिषेवितं- आसेवितं प्राणिवधादि आविष्कर्म-प्रकटक्रियां रहःकर्मविजनव्यापारंज्ञास्यतीत्यनुवर्त्तते, तथा अरहा न विद्यते रहो-विजनं यस्य सर्वज्ञत्वादसावरहा, अत एव रहस्यस्य-प्रच्छन्नस्याभावोऽरहस्यं तद्भजते इत्यरहस्यभागी,तंतंकालमाश्रित्येति शेषः, सप्तमी वेयमतस्तस्मिंस्तस्मिन् काल इत्यर्थो, मणसवयसकाइए। त्ति मानसश्च वाचसश्च कायिकश्च मानसवाचसकायिकं तत्र योगे- व्यापारे ह्रस्वत्वं च प्राकृतत्वादिति, वर्तमानानांव्यवस्थितानां सर्वभावान्- सर्वपरिणामान् जानन् पश्यन्विहरिष्यति, अभिसमेच्च त्ति अभिसमेत्य अवगम्य, सभावणाई ति। सह भावनाभिः प्रतिव्रतं पञ्चभिरीर्यासमित्यादिभिर्यानि तानि सभावनानि तासांचस्वरूपमावश्यकान्मन्तव्यं षड्जीवनिकायान्। रक्षणीयतया धम्मं ति एवंरूपंचारित्रात्मकं सुगतौ जीवस्य धारणाद्धम॑ श्रुतधर्मंच देशयन्- प्ररूपयन्निति, अथ महापद्मस्यात्मनश्च सर्वज्ञत्वात् सर्वज्ञयोश्च मताभेदाद्भेदे चैकस्ययथावस्त्वदर्शनेनासर्वज्ञताप्रसङ्गादित्युभयोर्भगवान् समां वस्तुप्ररूपणां दर्शयन्नाह-से जहे त्यादि, से इत्यथार्थोऽथशब्दश्च वाक्योपन्यासार्थो यथेत्युपमानार्थः। नाम एत्ति वाक्यालङ्कारे अज्जो त्ति हे / आर्याः शिष्यामन्त्रणम्, एगे आरंभट्ठाणे त्ति आरम्भ एव स्थानं-वस्तु आरम्भस्थानमेकमेव, तत्तत्प्रमत्तयोगलक्षणत्वात् तस्य, यदाह-सव्वो पमत्तजोगो समणस्स उ होइ आरंभो इति, इतः शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितम्, तथा फलकंप्रतलमायतं काष्ठं- स्थूलमायतमेव लब्धानि च सन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो 7 चैकस्यायथावस्तुदर्शने० (मु०)। 0 सर्वः प्रमत्तयोगो भवति आरम्भ एव श्रमणस्य // // 26 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy