SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 822 // महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमहत्तराः पुणरवि त्ति महत्तराभ्यनुज्ञानानन्तरं लोकान्ते- लोकाग्रलक्षणे सिद्धस्थाने भवा नवममध्ययन लोकान्तिकाः, भाविनि भूतवदुपचारन्यायेन चैवं व्यपदेशोऽन्यथा ते कृष्णराजीमध्यवासिनो, लोकान्तभावित्वं च नवस्थानम्, सूत्रम् 693 तेषामनन्तरभव एव सिद्धिगमनादिति, जीतकल्प: आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ते जीतकल्पिकाः, श्रेणिकआचरितमेव तेषामिदं न तु तैस्तीर्थकरः प्रतिबोध्यते, स्वयंबुद्धत्वाद्भगवत इति, ताहि न्ति ताभिर्विवक्षिताभिः, वगृहिं ति चरित्रादि वाग्भिर्यकाभिरानन्द उत्पद्यत इति भावः / इष्टाभि रिष्यन्ते स्म याः कान्ताभिः- कमनीयाभिः प्रियाभिः- प्रेमोत्पादिकाभिः, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते- मनोज्ञाभिः- शुभस्वरूपाभिमनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह- मणामाहिं ति मनोऽमन्ति- गच्छन्ति यास्तास्तथा ताभिरुदारेण-उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः कल्यं- आरोग्यमणन्ति-शब्दयन्तीति कल्याणास्ताभिः, शिवस्य- उपद्रवाभावस्य सूचकत्वाच्छिवाभिः, धनं लभन्ते धने वा साध्व्यो धन्यास्ताभिः / मङ्गले-दुरितक्षये साध्व्यो मङ्गल्यास्ताभिः सह श्रिया- वचनार्थशोभया यास्ताः सश्रीकास्ताभिर्वाग्भिरिति सम्बन्धितमभिनन्द्यमानः-समुल्लास्यमानो, बहिय त्ति नगराहिस्तादिति / इतोवाचनानन्तरमनुश्रित्य लिख्यते- साइरेगाइ न्ति अर्द्धसप्तमैर्मासैदश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्मवर्जनतस्त्यक्ते देहे परीषहादिसहनतस्तथा / सक्ष्यति उत्पत्स्यमानेषूपसर्गेषु भयाभावतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावतस्तितिक्षिष्यति दैन्याभावतोऽध्यासिष्यते अविचलतयेति, जाव गुत्ते त्ति करणादिदं दृश्यं- एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए भाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः / उच्चारपासवणखेलसिंघाणजल्लंपरिठावणियासमिए खेलो- निष्ठीवनं सिंघाणो- नासिकाश्लेष्मा जल्लो- मलः, मणगुत्ते / 0 पारि० (मु०)।
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy