________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि // 821 // अबलप्रातिवेशिकराजः, ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं एवं ओहयसत्तुं उपहता राज्यापहाराद् निहता मारणान्मलिता मानभञ्जनादुद्धृता देशनिष्काशनात्कण्टका-दायादा यत्र राज्ये तत्तथा, अत एवाकण्टकम्, एवं शत्रवोऽपि, नवरंशत्रवस्तेभ्योऽन्ये, पराईयसत्तुं विजयवत्त्वादिति, ववगयदुभिक्खं मारिभयविप्पमुक्कं खेमं सिवंसुभिक्खं पसन्नडिंबडमरं डिम्बानिविघ्ना डमराणि-कुमारादिव्युत्थानादीनि, रज्जं पसासेमाणे त्ति पालयन् विहरिस्सइ त्ति / दो देवा महद्धिया इत्यत्र यावत्करणाद् / महज्जुइया महाणुभागा महायसा महाबले ति दृश्यम्, सेणाकम्मति सेनायाः-सैन्यस्य कर्म-व्यापारः शत्रुसाधनलक्षणः सेनाविषयं 8 वा कर्म- इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च-दक्षिणयक्षनिकायेन्द्रो माणिभद्रश्च- उत्तरयक्षनिकायेन्द्रः, बहवे राईसरे त्यादि, राजा-महामाण्डलिकः ईश्वरो- युवराजो माण्डलिकोऽमात्यो वा, अन्ये च व्याचक्षते- अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः- परितुष्टनरपतिप्रदत्तपट्टबन्धभूषितो माडम्बिकश्छिन्नमडम्बाधिपः, कौटुम्बिकः- कतिपयकुटुम्बप्रभुरिभ्योऽर्थवान्, स च किल यदीयपुञ्जीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठीश्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक्, सेनापतिपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहकः- सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिरादिर्येषां ते तथा, देवसेणे त्ति देवावेव सेना यस्य देवाधिष्ठिता वा सेना यस्य स देवसेन इति, देवसेणाती ति देवसेन इत्येवंरूपम्, सेते त्यादि श्रेयान्- अतिप्रशस्यः श्वेतो वा कीदृगित्याह- शङ्खतलेन-कम्बुरूपेण विमलेन-पङ्कादिरहितेन सन्निकाश:- सङ्काशः सदृशो यः स शङ्खतलविमलसन्निकाशः / दुरूढे त्ति आरूढः समाणे त्ति सन् अतियास्यति प्रवेक्ष्यति निर्यास्यति निर्गमिष्यतीति, क्वचिद्वर्त्तमाननिर्देशो दृश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र, गुरुमहत्तरएहिं ति गुर्वोर्मातापित्रोर्महत्तरा:- पूज्याः अथवा गौरवाईत्वेन गुरवो // 821 //