SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ नवममध्ययन नवस्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ / / 819 // सूत्रम् 693 श्रेणिकचरित्रादि प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनस्तम्, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः / जं रयणिं च त्ति यस्यां च रजन्यां तं रयणिं च त्ति तस्यां रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोत्पत्तिरिति रजनीग्रहणम्, से दारए पयाहिइ ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, सब्भितरबाहिरए त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः। विंशत्या पलशतैर्भारो भवति अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः प्रसिद्धः / अग्रं-प्रमाणं ततो भार एवाग्रं भाराग्रं तेन भाराग्रेण भाराग्रशो-भारपरिमाणतः, एवं कुम्भाग्रशो, नवरं कुम्भ आढकषष्ट्यादिप्रमाणः, पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, जाव त्ति करणाद् निव्वत्ते असुइजाइकम्मकरणे संपत्ते त्ति दृश्यम्, तत्र निर्वृत्ते निर्वर्तित इत्यर्थः पाठान्तरतः निव्वत्ते वा निवृत्ते- उपरते अशुचीनां- अमेध्यानां जातकर्मणां- प्रसवव्यापाराणां करणेविधाने सम्प्राप्ते- आगते बारसाहदिवसे त्ति द्वादशानां पूरणो द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहोऽथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति, अयं ति इदं वक्ष्यमाणतया प्रत्यक्षासन्नं एयारूवं ति एतदेव रूपं-स्वभावो यस्य न मात्रयापि प्रकारान्तरापन्नमित्यर्थः, किं तत्?- नामधेयं-प्रशस्तं नाम, किंविधं?गौणं न पारिभाषिकम्, गौणमित्यमुख्यमपिस्यादित्याह-गुणनिष्पन्नं इति गुणानाश्रित्य पद्मवर्षादीन्निष्पन्नं गुणनिष्पन्नमित्यक्षरघटना, महापउमे महापउमे त्ति तत्पित्रोः पर्यालोचनाभिलापानुकरणम्, तए णं ति पर्यालोचनानन्तरं महापउम इति महापद्म इत्येवंरूपं साइरेगट्ठवासजायगं ति सातिरेकाणि-साधिकान्यष्टौ वर्षाणिजातानि यस्य स तथा तम्, रायवन्नओत्ति राजवर्णको वक्तव्यः, स चायं- महयाहिमवन्तमहन्तमलयमंदरमहिंदसारे महता- गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तया हिमवांश्च (r) प्रमाणतः (मु०)। 819 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy