SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 818 // चरित्रादि बहुपडिपुन्नाणं ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, नवममध्ययन सुकुमारी- कोमलौ पाणी च पादौ च यस्य स सुकुमारपाणिपादस्तम्, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि / नवस्थानम्, सूत्रम् 693 वा- पवित्राणि पञ्च इन्द्रियाणि- करणानि यस्मिंस्तत्तथा अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं श्रेणिकवाशरीरं यस्य सोऽहीनप्रतिपूर्णपञ्चेन्द्रियशरीरोऽहीनप्रतिपुण्यपञ्चेन्द्रियशरीरो वा तम्, तथा लक्षणं-पुरुषलक्षणंशास्त्राभिहितं 'अस्थिष्वर्थाः सुखं मांस' इत्यादि,मानोन्मानादिकंवा व्यञ्जनं-मषतिलकादिगुणा:- सौभाग्यादयोऽथवा लक्षणव्यञ्जनयोर्ये / गुणास्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओत्ति तु प्राकृतत्वाद्वर्णागमतः, अथवा उप अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतस्तम्, लक्षणव्यञ्जनस्वरूपमिदमुक्तं- माणुम्माणपमाणादि लक्खणं वंजणं तुमसमाई। सहजं च लक्खणं वंजणं तु पच्छा समुप्पन्नं ॥१॥इति लक्षणमेवाधिकृत्य विशेषणान्तरमाह- माणुम्माणे त्यादि, तत्र मानं-जलद्रोणप्रमाणता, साह्येवं-जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणं- आत्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं च- जलदोण 1 मद्धभारं 2 समुहाइं समुस्सिओ व जो नव उ 3 / माणुम्माणपमाणं तिविह खलु लक्खणं एवं // 1 // इति ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्टु जातानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गंशरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम्, तथा शशिवत्सौम्याकारं कान्तं- कमनीयं प्रियं लक्षणं मानोन्मानप्रमाणादि मषादिव्यञ्जनम् / अथवा सहज लक्षणं पश्चात्समुत्पन्नं तु व्यञ्जनम्॥१॥ जलद्रोणो मानमर्द्धभारमुन्मानं स्वमुखानि नवसमुच्छ्रितो / यस्तु प्रमाणं त्रिविधमेतल्लक्षणं खलु। // 818 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy