________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 692 कृष्णादीनां मुक्तिः // 812 // कालसन्दीपो मारितो, विद्याधरचक्रवर्त्तित्वं च प्रापि, ततोऽसौ सर्वांस्तीर्थकरान् वन्दित्वा नाट्यं चोपदाभिरमते स्मेति। तथा श्राविकां- श्रमणोपासिकां सुलसाभिधानां बुद्धः- सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा- ज्ञाता येन स श्राविकाबुद्धः, अंमडो अंमडाभिधानः परिव्राजकविद्याधरश्रमणोपासकः, अयंचार्थ: कथानकादवसेयः, तच्चेदं-चम्पाया नगर्या अम्बडो विद्याधरश्रावको महावीरसमीपे धर्ममुपश्रुत्य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणितो- यथा सुलसाश्राविकायाः कुशलवार्ता कथये: सच चिन्तयामास-पुण्यवतीयं यस्यास्त्रिलोकनाथः स्वकीयकुशलवार्तांप्रेषयति, कः पुनस्तस्या गुण इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकवेषधारिणा गत्वा तेन भणिताऽसौ-आयुष्मति! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितं- येभ्यो दत्ते भवत्यसौते विदिता एव, ततोऽसावाकाशविरचिततामरसासनोजनं विस्मापयतेस्म,ततस्तंजनो भोजनेन निमन्त्रयामास,सतु नैच्छत्, लोकस्तं प्रपच्छ-कस्य भगवन्! भोजनेन भागधेयवत्त्वंमासक्षपणपर्यन्ते संवर्द्धयिष्यति?,सप्रतिभणति स्म-सुलसायाः, ततोलोकस्तस्या वर्द्धनकंन्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि- किं पाखण्डिभिरस्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायिपरमसम्यग्दृष्टिरेषा या महातिशयदर्शनेऽपिन दृष्टिव्यामोहमगमदिति, ततोलोकेन सहासौ तद्नेहे नैषेधिकी कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकांप्रतिपत्तिमकरोत्, तेनाप्यसावुपबृंहितेति, यश्चौपपातिकोपाङ्गेमहाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि-आर्यिकाऽपि सुपार्धाभिधाना पापित्यीया-पार्श्वनाथशिष्यशिष्या, चत्वारो यामा- महाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति 1, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित्केचित्तु / केवलित्वेन, भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थंमी ति वचनादिति भावः, शेषं स्पष्टम् / अनन्तरसूत्रोक्तस्य श्रेणिकस्य // 812 //