________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ | // 810 // ततः कायोत्सर्गमकरोत्, आगतो देवो निवेदितो व्यतिकरो विहितो महोपकारो जातो लक्षणवत्पुत्रगण इत्यादि 7, तथा रेवती भगवत औषधदात्री, कथं?, किलैकदा भगवतो मेण्ढिकग्रामनगरे विहरतः पित्तज्वरो दाहबहुलो बभूव लोहितवर्चश्च प्रावर्त्तत, चातुर्वर्यं च व्याकरोति स्म यदुत गोशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति, तत्रच सिंहनामा मुनिरातापनाऽवसान एवममन्यत-मम धर्माचार्यस्य भगवतो महावीरस्य ज्वररोगोरुजति, ततो हा वदिष्यन्त्यन्यतीर्थिका यथा छद्मस्थ एव महावीरो गोशालकतेजोऽपहतः कालगत इति एवम्भूतभावनाजनितमानसमहादुःखखेदितशरीरो मालुककच्छाभिधानं विजनं वनमनुप्रविश्य कुहुकुहेत्येवं महाध्वनिना प्रारोदीत्, भगवांश्च स्थविरैस्तमाकार्योक्तवान्- हे सिंह! यत्त्वया व्यकल्पि न तद्भावि, यत इतोऽहं देशोनानि षोडशवर्षाणि केवलिपर्यायं पूरयिष्यामि, ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधानया गृहपतिपत्न्या मदर्थं द्वेकूष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनम्, तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोर्निवृत्तिकारकं कुक्कुटमांसकं बीजपूरककटाहमित्यर्थस्तदाहर, तेन नः प्रयोजनमित्येवमुक्तोऽसौ तथैव कृतवान्, रेवती चसुबहुमानं कृतार्थमात्मानं मन्यमाना यथायाचितं तत्पात्रे प्रक्षिप्तवती, तेनाप्यानीय तद्भगवतो हस्ते निसृष्टम्, भगवतापि वीतरागतयैवोदरकोष्ठे निक्षिप्तम्, ततस्तत्क्षणमेव क्षीणो रोगो जातो, जातानन्दो यतिवर्गो मुदितो निखिलो देवादिलोक इति / अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेनोक्ता अधुनातु ये जीवाः सेत्स्यन्ति तथैव तानाह एसणं अजो! कण्हे वासुदेवे 1 रामे बलदेवे 2 उदये पेढालपुत्ते 3 पुट्टिले 4 सतते गाहावती 5 दारुते नितंठे 6 सच्चती नितंठीपुत्ते 7 सावितबुद्धे अम्बडे परिव्वायते 8 अज्जाविणंसुपासा पासावच्चिजा ९आगमेस्साते उस्सप्पिणीते चाउज्जामंधम्मपन्नवतित्ता सिज्झि0 विसृष्टम् (मु०)। नवममध्ययन नवस्थानम्, सूत्रम् 690-691 पार्बोचत्वम्, वीरतीर्थभावितीर्थकरा: सूत्रम् 692 कृष्णादीनां मुक्तिः // 810