SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 809 // नवममध्ययन नवस्थानम्, सूत्रम् 690-691 पाश्वोच्चत्वम्, वीरतीर्थभावितीर्थकरा: मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्तुम्, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीद, इतश्च तेऽशनाद्युपस्कारयाञ्चकुरेकत्र च समवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः / ततोऽनागच्छति शङ्ख पुष्कलीनामा श्रमणोपासकः शतक इत्यपरनाम शङ्खस्याकारणार्थं तद्गृहं जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, ततः पौषधशालायां स विवेश, ईर्यापथिकी प्रतिचक्राम, शङ्खमभ्युवाच- यदुतोपस्कृतं तदशनादि तद्गच्छामः श्रावकसमवायं भुज्महे तदशनादि प्रतिजागृमः पाक्षिकपौषधम्, तत उवाच शङ्खः- अहं हि पौषधिको नागमिष्यामीति, ततः पुष्कली गत्वा श्रावकाणां तद् निविवेद ते तु तदनु बुभुजिरे, शङ्खस्तु प्रातः पौषधमपारयित्वैव पारगतपादपद्मप्रणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमुचितदेशे उपविवेश, इतरेऽपि भगवन्तंवन्दित्वा धर्मच श्रुत्वाशङ्खान्तिकंगत्वा एवमूचुः-सुष्टुत्वं देवानांप्रिय! अस्मान् हीलयसि, ततस्तान् भगवान् जगाद- मा भो यूयं शङ्ख हीलयत शङ्खो ह्यहीलनीयो, यतोऽयं प्रियधर्मा दृढधर्मा च, तथा सुदृष्टिजागरिकां जागरित इत्यादि६-७, सुलसा राजगृहे प्रसेनजितो राज्ञः सम्बन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव, यस्याश्चरितमेवमनुश्रूयते-किल तया पुत्रार्थं स्वपतिरिन्द्रादीन् नमस्यन्नभिहितोऽन्यां परिणयेति, स च यस्तव पुत्रस्तेनेह प्रिये! प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान्, इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थं कोऽपि देवः साधुरूपेणागतस्तं च वन्दित्वा बभाण-किमागमनप्रयोजनं? देवोऽवादीत्- तव गृहे लक्षपाकं तैलमस्ति तच्च मेवैद्येनोपदिष्टमिति तद्दीयताम्, ददामीत्यभिगतागृहमध्ये अवतारयन्त्याश्चभिन्नं देवेन तद्भाजनमेवं द्वितीयं तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, एकैकां खादेत्रिंशत्ते सुता भविष्यन्ति प्रयोजनान्तरे चाहं स्मर्त्तव्य इत्यभिधाय गतोऽसौ, चिन्तितंचानया-सर्वाभिरप्येक एव मे पुत्रो भूयादिति सर्वाः पीताः / आहूता द्वात्रिंशत्पुत्राः वर्द्धते स्म जठरमरतिश्च
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy