SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ भाग-२ // 797 // श्रीस्थानाङ्गभावः / तथोन्मानं- तुलाकर्षादि तद्विषयं यत्तदप्युन्मानं खण्डगुडादि धरिममित्यर्थस्ततो द्वन्द्वसमाहारः कार्यस्ततस्तस्य च नवममध्ययन श्रीअभय० किमित्याह-यत्प्रमाणम्, चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते, तत्पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, नवस्थानम्, वृत्तियुतम् सूत्रम् 673 तथा धान्यस्य-व्रीह्यादे/जानां च- तदद्विशेषाणामुत्पत्तिश्च या सा पाण्डुके- पाण्डुकनिधिविषया, तद्व्यापारोऽयमिति नैसदिभावो, भणिता- उक्ता जिनादिभिरिति / सव्वा गाहा कण्ठ्या ३।रयण गाहा, अक्षरघटनैवं- रत्नान्येकेन्द्रियाणि चक्रादीनि निधिस्वरूपम् | सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते- भवन्ति यानि चक्रवर्त्तिनस्तानि सर्वाणि सर्वरत्ने सर्व्वरत्ननामनि निधौल द्रष्टव्यानीति 4 / वत्थाणं गाहा, वस्त्राणां- वाससां योत्पत्तिः सामान्यतो या च विशेषतो निष्पत्तिः- सिद्धिः सर्वभक्तीनांसर्ववस्त्रप्रकाराणां सर्वा वा भक्तयः- प्रकारा येषां तानि तथा तेषाम्, किंभूतानां वस्त्राणामित्याह- रङ्गाणां- रङ्गवतां रक्तानामित्यर्थो, धौतानां- शुद्धस्वरूपाणाम्, सर्वैवैषा महापद्म- महापद्मनिधिविषया 5 / काले गाहा, काले कालनामनि निधौ कालज्ञानं कालस्य शुभाशुभरूपस्य ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह- भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणम्, चशब्दावर्त्तमानवस्तुविषयं वर्तमानम्, तीसुवासेसु त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधौ वर्त्तते, शिल्पशतंच घट 1 लोह 2 चित्र 3 वस्त्र 4 नापित 5 शिल्पानांप्रत्येकं विंशतिभेदत्वादिति, तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजाया-लोकस्य / हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति 6 / लोह गाहा, लोहस्य चोत्पत्तिमहाकाले निधौ भवति- वर्त्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम्बन्धनीया केवलं मणयश्चन्द्रकान्तादयो मुक्तामुक्ताफलानि शिलाः- स्फटिकादिकाः प्रवालानि-विद्रुमाणीति 7 / जो गाहा योधानां- शूरपुरुषाणां योत्पत्तिरावरणानां 797 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy