________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 668-672 दर्शनावरणीयभेदाः, // 792 // अभिजिचंद्र वत्ति संसरणं निर्वर्तितवन्तोऽनुभूतवन्तः, एवमन्यदपि, अच्चासणयाए त्ति अत्यन्तं-सततमासनं- उपवेशनं यस्य सोऽत्यासनस्तद्धावस्तत्ता तया, अर्शो- विकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात् तया, सा चाजीर्णकारणत्वाद्रोगोत्पत्तये इति, अहियासणयाए त्ति अहितं- अननुकूलं टोलपाषाणाद्यासनं यस्य स तथा, शेषं तथैव, तया, अहिताशनतया वा, अथवा साऽजीर्णे भुज्यते यत्तु, तदध्यसनमुच्यते। इति वचनात् तदध्यसनं- अजीर्णे भोजनं तदेव तत्ता तयेति, भोजनप्रतिकूलता- प्रकृत्यनुचितभोजनता तया, इन्द्रियार्थानां-शब्दादिविषयाणां विकोपनं- विपाक इन्द्रियार्थविकोपनं कामविकार इत्यर्थस्ततो हि स्त्र्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्तं- आदावभिलाषः 1 स्याच्चिन्ता तदनन्तरं 2 ततः स्मरणम् 3 / तदनु गुणानां कीर्तन 4 मुद्वेगश्च 5 प्रलापश्च 6 उन्माद 7 स्तदनु ततो व्याधि 8 जडता 9 ततस्ततो मरणम् 10 // 1 // (रुद्रटकाव्यालं० 14/4-5) इति विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राजयक्ष्मादिरोगोत्पत्तिः स्यादिति शारीररोगोत्पत्तिकारणान्युक्तान्यथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह णवविधे दरिसणावरणिज्जे कम्मे पं० तं०-निद्दा निद्दानिद्दा पयला पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे अवधिदसणावरणे केवलदसणावरणे // सूत्रम् 668 // अभिती णं णक्खत्ते सातिरेगे नव मुहत्ते चंदेण सद्धिं जोगं जोतेति, अभीतिआतिआ णं णवनक्खत्ता णं चंदस्स उत्तरेणं जोगं जोति, तं०- अभीती सवणो धणिट्ठा जाव भरणी / / सूत्रम् 669 // इमीसेणं रयणप्पभाते पुढवीए बहुसमरमणिज्जाओ भूमिभागाओणवजोअणसताई उद्धं अबाहाते उवरिल्ले तारारूवे चारंचरति // सूत्रम् 670 // योगः, उत्तरयोगिनक्षत्राणि, तारकचाराबाधा, जम्बूद्वीपप्रवेशिमत्स्याः , बलदेववासुदेवपित्राद्यतिदेशः // 792 //