SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 791 // अभिणंदणे त्यादि कण्ठ्यम् / अभिनन्दनसुमतिजिनाभ्यां च सद्भताः पदार्थाः प्ररूपितास्ते च नवेति तान् दर्शयन्नाह-नव सब्भावे त्यादि, सद्भावेन- परमार्थेनानुपचारेणेत्यर्थः पदार्था- वस्तूनि सद्भावपदार्थाः, तद्यथा- जीवाः सुखदुःखज्ञानोपयोगलक्षणाः / अजीवास्तद्विपरीताः, पुण्य-शुभप्रकृतिरूपं कर्म पापं-तद्विपरीतं कर्मैव आश्रूयते- गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुरिति भावः, संवरः- आश्रवनिरोधो गुप्त्यादिभिः, निर्जरा विपाकात् तपसा वा कर्मणां देशतः क्षपणा, बन्धः-आश्रवैरात्तस्य कर्मण आत्मना संयोगो, मोक्षः- कृत्स्नकर्मक्षयादात्मनःस्वात्मन्यवस्थानमिति, ननुजीवाजीवव्यतिरिक्ताः पुण्यादयोन सन्ति, तथाऽयुज्यमानत्वात्, तथाहि-पुण्यपापे कर्मणो बन्धोऽपि तदात्मक एव कर्मच पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, सचात्मानं पुद्गलांश्च विरहय्य कोऽन्यः?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपो, निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माज्जीवाजीवौ सद्भावपदार्थाविति वक्तव्यम्, अत एवोक्तमिहैव जदत्थिं चणं लोए तं सव्वंदुप्पडोयारं, तंजहा- जीवच्चेअ अजीवच्चेअ (सू० 49) अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्तौ, सामान्यविशेषात्मकत्वाद्वस्तुनः / तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्गहाभिधानमात्रमेव कर्त्तव्यम्, सच यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिर्जरेच मोक्षस्य तदा संसारकारणत्यागेनेतरत्र प्रवर्त्तते नान्यथेत्यतः षट्कोपन्यासो मुख्यसाध्यख्यापनार्थं च मोक्षस्येति / अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेदगत्यागत्यवगाहनासंसारनिर्वर्त्तनरोगोत्पत्तिकारणप्रतिपादनाय नवविहे त्यादिसूत्रपञ्चदशकमाह, सुगमंचेदम्, नवरमवगाहन्ते यस्यांसा अवगाहना- शरीरमिति, वत्तिंसु नवममध्ययनं नवस्थानम्, सूत्रम् 664-667 अभिनन्दनसुमयीन्तरम्, जीवादिसद्भावपदार्थाः, संसारसमापन्नभेदपृथ्व्यादिगत्यागतिसर्वजीवभेदा|ऽवगाहनासंसारवर्त्तनानि, रोगोत्पत्तिकारणानि // 791 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy