SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ अष्टममध्ययनं अष्टस्थानम्, सूत्रम् 652 केवलिसमुद्धातः // 784 // लोगंपूरेति पंचमे समए लोगंपडिसाहरति छट्टे समए मंथं पडिसाहरतिसत्तमे समए कवाडं पडिसाहरति अट्ठमे समए दंडं पडिसाहरति ॥सूत्रम् 652 // अढे त्यादि, तत्र समुद्धातंप्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, अन्तमौहर्तिकमुदीरणावलिकायांकर्मप्रक्षेपव्यापाररूपमित्यर्थः / ततः समुद्धातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपिलोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीये तदेव दक्षिणोत्तरदिग्द्वये प्रसारणान्मन्थानं करोति लोकान्तप्रापिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशानामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति, ततश्चसकलोलोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमेसमये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान्सकोचयति, षष्ठे मन्थानमुपसंहरति घनतरसंकोचात्, सप्तमे कपाटमुपसंहरति दण्डात्मनि सङ्कोचाद्, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, तत्र च औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु // 1 // कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च / समयत्रये च तस्मिन् भवत्यनाहारको नियमाद्॥ २॥इति, वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समया यस्मिन् सोऽष्टसमयः स एवाष्टसामयिकः केवलिनः समुद्धातो केवलिसमुद्धातो न शेष इति / अनन्तरं केवलिनांसमुद्धातवक्तव्यतोक्ता, अथाकेवलिनांगुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं समणस्सणं भगवतो महावीरस्स अट्ठसया अणुत्तरोववातियाणंगतिकल्लाणाणंजाव आगमेसिभदाणं उक्कोसिता अणुत्तरोव // 784 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy