________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ | अष्टममध्ययनं अष्टस्थानम्, सूत्रम् 625-627 महापद्मप्रव्राज्यनृपाः, सिद्धाः, कृष्णान // 768 // महिष्यः, वीर्यप्रवाद स्तत्स्वभावाद्ये ते अमध्यप्रदेशा इति। जीवमध्यप्रदेशादिपदार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्ययनावतारिणी तीर्थङ्करवक्तव्यतांसूत्रद्वयेनाह अरहंता णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अणगारितं पव्वावेस्सति, तं०- पउमं पउमगुम्मं नलिणं नलिनगुम्म पउमद्धतं धणुद्धतं कणगरहं भरहं 1 // सूत्रम् 625 // कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिट्ठनेमिस्स अंतिते मुंडा भवेत्ता अगारातो अणगारितं पव्वतिता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, तं०- पउमावती गोरी गंधारी लक्खणा सुसीमा जंबवती सच्चभामा रुप्पिणी कण्हअग्गमहिसीओ२॥सूत्रम् 626 // वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलिआवत्थूपं० // सूत्रम् 627 // अरहा ण मित्यादि सुगमम्, नवरं महापउमे त्ति महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकरः श्रेणिकराजजीव इति इहैव नवस्थानके वक्ष्यमाणव्यतिकर इति, मुंडा भवित्त त्ति मुण्डान् भावयित्वेति / कृष्णाग्रमहिषीवक्तव्यता त्वन्तकृद्दशाङ्गादवसेया, सा चेयं-किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन्, अरिष्ठनेमिस्तत्र विहरति स्म, कृष्णः सपरिवारः पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासामासिरे, भगवांस्तु तेषां धर्ममाचख्यौ, ततः कृष्णो वन्दित्वाऽभ्यधात्-अस्या भदन्त! द्वारकावत्या द्वादशनवयोजनायामविस्ताराया धनपतिनिर्मितायाः प्रत्यक्षदेवलोकभूतायाः किंमूलको विनाशो भविष्यति?, भगवान् त्रिभुवनगुरुर्जगाद- सुराग्निद्वीपायनमुनिमूलको विनाशो भविष्यतीति निशम्य मधुमथनो मनस्येवं विभावितवान्-धन्यास्ते प्रद्युम्नादयो ये निष्क्रान्ताः अहमधन्यो भोगमूर्च्छितो न शक्नोमि प्रव्रजितुमिति, ततस्तमहन्न वस्तुचूलवस्तूनि // 768 //