________________ अष्टममध्ययनं अष्टस्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 764 // | अष्टपुरुषकालं यावद् युगान्तकरभूमिः पुरुषलक्षणयुगापेक्षयाऽन्तकराणां- भवक्षयकारिणां भूमि:- कालः सा आसीदिति, इदमुक्तं भवति-नेमिनाथस्य शिष्यप्रशिष्यक्रमेणाष्टौ पुरुषान् यावनिर्वाणं गतवन्तोन परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमिः प्रसङ्गादुच्यते-दुवास त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवोभवान्तमकार्षुरिति / तीर्थकरवक्तव्यताधिकारादिदमाह- समणेण मित्यादि सुगमम्, नवरं भवित्त त्ति अन्तर्भूतकारितार्थत्वाद् मुण्डान् भावयित्वेति दृश्यम्, वीरंगए इत्यादि तह संखे कासिवद्धणए इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रवाजितास्तथोच्यते, तत्र वीराङ्गको वीरयशाः संजय इत्येते प्रतीताः। एणेयको गोत्रतः,सच केतकार्द्धजनपदश्वेतवीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः, तथा सेये आमलकल्पानगर्याः स्वामी, यस्यां हि सूर्यकाभो देवः सौधर्माद् देवलोकाद् भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति, तथा शिवो हस्तिनागपुरराजो, यो होकदा चिन्तयामास- अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततोऽस्ति पुराकृतकर्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दिक्प्रोक्षकतापसतया प्रवव्राज, ततः षष्ठंषष्ठेन तपस्यतस्तथोचितमातापयतः परिशटितपत्रादिना पारयतो विभङ्गज्ञानमुत्पेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिति, उत्पन्नं च मे दिव्यज्ञानमित्यवष्टम्भादागत्य नगरे बहुजनस्य यथोपलब्ध तत्त्वमुपदिदेश, तदा च तत्र भगवान् विजहार गौतमश्च भिक्षां भ्राम्यन् जनाच्छिवप्ररूपणांशुश्राव, गत्वा च भगवन्तं प्रपच्छ, भगवांस्त्वसङ्खयेयान् द्वीपसमुद्रान् प्रज्ञापयामास, भगवद्वचनं च जनात् श्रुत्वा शिवः शङ्कितस्ततस्तस्य विभङ्गःप्रतिपपात, (r) कासितव० (मु०)। 7 श्वेतम्बी (मु०)। 9 दिक्प्रोक्षितता० (मु०)। 618-621 सम्यग्दर्शनादीनि, | उपमिताद्धाः, नेमियुगान्तकृभूमिः, वीरप्रवाजितनृपाः 764 //