________________ श्रीअभय० वृत्तियुतम् // 759 // वचन छद्मस्थाज्ञेया: गृहाद्धान्यमितो वा कुशूलागृहाणेति 5, छट्ठी सस्सामिवायणे त्ति स्वश्च स्वामी च स्वस्वामिनी तयोर्वचनं- प्रतिपादनं तत्र अष्टममध्ययनं स्वस्वामिवचने-स्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा- तस्यास्य वा गतस्य वाऽयं भृत्यः / वायणे त्तीह प्राकृतत्वाद् अष्टस्थानम्, सूत्रम् दीर्घत्वं 6, सन्निधीयते क्रिया अस्मिन्निति सन्निधानं-आधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयोपलक्षणत्वाच्चास्य 608-611 काले भावेच क्रियाविशेषणे, तत्र सन्निधाने तद्भक्तमिह पात्रे, तत्सप्तच्छदवनमिह शरदिपुष्यति, पुष्यनक्रिया शरदा विशेषिता, भौमादि निमित्तानि, तत् कुटुम्बकमिह गवि दुह्यमानायां गतम्, इह गमनक्रिया गोदोहनभावेन विशेषितेति 7, अष्टम्यामन्त्रणी भवेदिति, सु औल जसिति, प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्माकरणादिव लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टम्युक्ता, विभक्तयः, यथा हे युवनिति श्लोकद्वयार्थः / उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः / तत्थ गाहा तइया गाहा, इह हंदी त्युपदर्शने / केवलिज्ञेयाः पयाणमि त्ति सम्प्रदाने, अवणे गाहा अवणे त्ति अपनयेत्यर्थः / इदं चानुयोगद्वारानुसारेण व्याख्यातम्, आदर्शेषु तु अमणे इति / पदार्थाः, दृश्यते, तत्र च स्त्र्यामन्त्रणतया गमनीयम्, हे अमनस्के इत्यर्थः॥ अथ वचनविभक्तियुक्तशास्त्रसंस्कारात् किं छद्मस्थाः कुमारभृत्या द्यायुर्वेदाः साक्षाददृश्यार्थान् विदन्ति?, उच्यते, नेत्याह- अट्ठट्ठाणे त्यादि व्याख्यातं प्राक्, नवरं यावत्करणाद् 'अधम्मत्थिकायं 2 आगासत्थिकायं 3 जीवमसरीरपडिबद्धं 4 परमाणुपोग्गलं 5 सद्द६ मिति द्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह चएयाणी त्यादि, सुगमम् // यथा धर्मास्तिकायादीन् जिनो जानाति तथाऽऽयुर्वेदमपि जानाति, स चायं- अट्ठविहे आउव्वेए / इत्यादि, आयुः- जीवितं तद्विदन्ति वारक्षितुमनुभवन्ति चोपक्रमरक्षणेन विन्दन्ति वा-लभन्ते यथाकालं तेन तस्मात्तस्मिन् / वेत्यायुर्वेदश्चिकित्साशास्त्रं तदष्टविधम्, तद्यथा- कुमाराणां- बालकानां भृतौ- पोषणे साधु कुमारभृत्यम्, तद्धि तन्त्रं ®स्वं च स्वामी (मु०)। 0 तद्विदन्ति रक्षि०...चोपक्रमरक्षणे विदन्ति (मु०)। // 759