________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 758 // नविणस्सइ / गावो मित्ता य पुत्ता य, नारीणं चेव वल्लभो॥१॥(स्थानाङ्ग सू०५५३ गा०५४) इत्यादि,शकुनरुतं वा यथा- विविचिविसद्दो पुन्नो, सामाए सूलिसूलि धन्नो उ। चेरी चेरी दित्तो चिक्कुत्ती लाभहेउत्ति // 1 // इत्यादि 6, लक्षणं स्त्रीपुरुषादीनाम्, यथाअस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु।गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम्॥१॥इत्यादि७, व्यञ्जनं- मषादि, यथा-'ललाटकेशः प्रभुत्वाये'त्यादि ८॥एतानि च शास्त्राणि वचनविभक्तियोगेनाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह- अट्ठविहा वयणविभत्ती त्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यैस्तानि वचनानि विभज्यते कर्तृत्वकर्मत्वादिलक्षणोऽर्थो यया सा विभक्तिर्वचनात्मिका विभक्तिर्वचनविभक्तिः, सुऔ जसि (पा०४/१/२) त्यादि, निद्देसे सिलोगो, निर्देशनं निर्देश:-कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनं तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहंवा आसे १,तथा उपदिश्यत इत्युपदेशनं- उपदेशक्रियाया व्याप्यमुपलक्षणत्वादस्य क्रियाया यद्व्याप्यं तत् कर्मेत्यर्थस्तत्र द्वितीया, यथा भण इमं श्लोकं कुरु वा तं घटं ददाति तं याति ग्रामं 2, तथा क्रियते येन तत्करणं- क्रियां प्रति साधकतम करोतीति वा करणः-कर्ता कृत्यल्युटो बहुल (पा० 3/3/113) मिति वचनादिति, तत्र करणे तृतीया कृता-विहिता, यथा नीतं सस्यं तेन शकटेन कृतं कुण्डं मयेति 3, तथा 'संपदावणे'त्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमःस्वस्तिस्वाहास्वधाऽलंवषड्युक्ताच्च चतुर्थी भवति, नमः शाखायै- वैरादिकायै, नमः प्रभृतियोगोऽपि कैश्चित्सम्प्रदानमभ्युपगम्यते इति चतुर्थी 4, पञ्चमी ति श्लोकः, अपादीयते अपायतो- विश्लेषत आ- मर्यादया दीयते दो अवखण्डन इति वचनात् खण्ड्यते-भिद्यते आदीयते वा-गृहाते यस्मात्तदपादानमवधिमात्रमित्यर्थस्तत्र पञ्चमी भवति, यथा- अपनय ततो अष्टममध्ययन अष्टस्थानम्, सूत्रम् 608-611 | भौमादिनिमित्तानि, वचनविभक्तयः, छद्मस्थाज्ञेयाः केवलिज्ञेयाः पदार्थाः, कुमारभृत्याद्यायुर्वेदाः // 758 //