________________ श्रीस्थानाङ्गा श्रीअभय० वृत्तियुतम् भाग-२ एकात्मवाद्याद्या / / 754 // 1, तथा सत्यपि कथञ्चिदेकत्वे भावानां सर्वथा अनेकत्वं वदतीत्यनेकवादी, परस्परविलक्षणा एव भावास्तथैव प्रमीयमाण- अष्टममध्ययनं त्वाद्, यथा रूपंरूपतयेति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गाद्दीक्षादिवैयर्थ्यमिति, अष्टस्थानम्, सूत्रम् 607 किञ्च-सामान्यमङ्गीकृत्यैकत्वं विवक्षितं परैः, सामान्यं च भेदेभ्यो भिन्नाभिन्नतया चिन्त्यमानंन युज्यते, एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मीत्येवमनेकवादी, अस्याप्यक्रियावादित्वंसामान्यादिरूपतयैकत्वेसत्यपि भावानांसामान्यादिनिषेधेन तन्निषेध अक्रियानादिति, नच सामान्यं सर्वथा नास्ति, अभिन्नज्ञानाभिधानाभावप्रसङ्गात्, सर्वथा वैलक्षण्ये चैकपरमाणुमन्तरेण सर्वेषाम-8 वादिनः परमाणुत्वप्रसङ्गात्, तथा अवयविनं धर्मिणं च विना न प्रतिनियतावयवधर्मव्यवस्था स्याद्, भेदाभेदविकल्पदूषणं चन कथञ्चिद्वादाभ्युपगमेन निरवकाशमिति 2, तथा अनन्तानन्तत्वेऽपिजीवानां मितान्-परिमितान् वदति उत्सन्नभव्यकं भविष्यति भुवन'मित्यभ्युपगमाद्, मितं वा जीवं- अङ्गष्ठपर्वमानं श्यामाकतन्दुलमात्रं वा वदति न त्वपरिमितमसङ्खयेयप्रदेशात्मकतया अङ्गलासङ्खयेयभागादारभ्य यावल्लोकमापूरयतीत्येवमनियतप्रमाणतया वा, अथवा मितं सप्तद्वीपसमुद्रात्मकतया लोकं वदत्यन्यथाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तुतत्त्वनिषेधनादेवेति 3, तथा निर्मितं- ईश्वरब्रह्मपुरुषादिना कृतं लोकं वदतीति निर्मितवादी, तथा चाहः- आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् / अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥ (मनुस्मृ० 1/5) तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे। नष्टामरनरे चैव, प्रणष्टोरगराक्षसे॥२॥ केवलं गह्वरीभूते, महाभूतविवर्जिते / अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः // 3 // तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम् / तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् // 4 // तस्मिन् पद्मे तु भगवान् दण्डीयज्ञोपवीतसंयुक्तः / ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः॥ 5 // अदितिः सुरसङ्घानां 0पगमनेन (मु०)। / 754 //