SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 750 // धारणाभेदादिति, प्रयोगसम्पच्चतुर्की, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये 1 पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः 2 क्षेत्रपरिज्ञानं 3 वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि 4, सङ्ग्रहपरिज्ञा सङ्ग्रहः- स्वीकरणंतत्र परिज्ञाज्ञानं नाम- अभिधानमष्टमीसम्पत्, सा च चतुर्विधा, तद्यथा- बालादियोग्यक्षेत्रविषया१पीठफलकादिविषया 2 यथासमय स्वाध्यायभिक्षादिविषया 3 यथोचितविनयविषयाचेति ४॥आचार्या हिगुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह- एके त्यादि, एकैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान:- अष्टचक्रप्रतिष्ठितो, मञ्जूषावत्, तत्स्वरूपं चेदं- नवजोयणविच्छिन्ना बारसदीहा समूसिया अट्ठ। जक्खसहस्सपरिवुडा चक्कट्ठपइट्ठिया नववि॥१॥ द्रव्यनिधानवक्तव्यतोक्ता, भावनिधानभूतसमितिस्वरूपमाह- अट्ठ समिई त्यादि, सम्यगितिः- प्रवृत्तिः समितिः। ईर्यायांगमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः, एषणायामुद्गमादिदोषवर्जनतः, आदाने-ग्रहणे भाण्डमात्रायाः- उपकरणमात्राया भाण्डस्य वा- वस्त्रायुपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च-साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलसिङ्घानजल्लानां परिष्ठापनिकायां समितिः स्थण्डिलविशुद्ध्यादिक्रमेण, खेलो-निष्ठीवनं सिंघानो- नासिकाश्लेष्मेति, मनसः कुशलतायांसमिति, चोऽकुशलत्वनिरोधेसमितिः, कायस्य स्थानादिषु समितिरिति // समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यस्यालोचकसाधोः प्रायश्चित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह__ अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणा पडिच्छित्तए, तं०- आतारवं आहारवं ववहारवं ओवीलए पकुव्वते 0नवापि नवयोजनविस्तीर्णानि द्वादशदीर्घानि अष्टसमुच्छ्रितानि / यक्षसहस्रपरिवृतानि चक्राष्टकप्रतिष्ठितानि / / 1 / / 0 पारि० (मु०)। अष्टममध्ययन अष्टस्थानम्, सूत्रम् 601-603 गणिसम्पदः, महानिध्युचत्वम्, समितयः सूत्रम् 604-606 आलोचनाप्रतीच्छकदायकगुणाः, प्रायश्चित्तानि, मदस्थानानि // 750 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy