________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 747 // अष्टममध्ययनं अष्टस्थानम्, सूत्रम् 597 अपराधानालोचनाऽऽलोचनकारणानि, तत्प्रत्याजातिवर्णनानिच पपातागर्हितत्वमुक्तम्, एतद्भणनादिहलोकागर्हितत्वमपि लघुताहादादिआलोचनागुणसद्भावेन वाच्यम्, आलोचनागुणाचैते-लहुयाल्हाइयजणणं अप्पपरनियत्ति अज्जवं सोही। दुक्करकरणं आढा निस्सल्लत्तं च सोहिगुणा॥१॥ (व्यव०भा० 1/317) इदानीं तस्यैव प्रत्याजात्यगर्हितत्वमाह- से ण मित्यादिना, अड्ढाई ति धनवन्ति यावत्करणाद् दित्ताई-दीप्तानि प्रसिद्धानि हप्तानि वा-दर्पवन्ति विच्छिन्नविउलभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि-विस्तारवन्ति विपुलानि- बहूनि भवनानि गृहाणि शयनानि-पर्यादीनि आसनानि-सिंहासनादीनि यानानि-रथादीनि वाहनानि च-वेगसरादीनि येषु कुलेषु तानि तथा, क्वचिद् वाहणाइन्नाई ति पाठस्तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि-सङ्कीर्णानि युक्तानीत्यर्थः इति व्याख्येयम्, तथा बहुधणबहुजायरूवरययाई बहु धनं- गणिमधरिमादि येषु तानि तथा बहु जातरूपं च- सुवर्ण रजतं च- रूप्यं येषु तानि तथा, पश्चात्कर्मधारयः।आओगपओगसंपउत्ताई आयोगेन-द्विगुणादिलाभेन द्रव्यस्य प्रयोगोऽधमर्णानांदानंतत्र सम्प्रयुक्तानिव्यापृतानि तेन वासंप्रयुक्तानि-संगतानि यानि तानि तथा, विच्छड्डियपउरभत्तपाणाइं विच्छर्दिते- त्यक्ते बहुजनभोजनावशेषतया विच्छवती वा-विभूतिमती विविधभक्ष्यभोज्यचूष्यलेह्यपेयाद्याहारभेदयुक्ततया प्रचुरे भक्तपाने येषु तानि तथा, बहुदासीदासगोमहिसगवेलयप्पभूयाई बहवो दासीदासा येषु तानि तथा गावो महिष्यश्च प्रतीता गवेलका- उरभ्रास्ते प्रभूताः- प्रचुरा येषु तानि तथा पश्चात्कर्मधारयः / अथवा बहवो दास्यादयः प्रभूता जाता येषु तानि तथा, बहुजनस्याप्यरिभूतानि अपरिभवनीयानीत्यर्थस्तृतीयार्थे वा षष्ठी, ततो बहुजनेनापरिभूतानि- अतिरस्कृतानि अज्जउत्तेत्ति आर्ययोरपापकर्मवतो: पित्रोः पुत्रो यःस पचास तथा, अनेनालोचकस्यानालोचकप्रत्याजातिविपर्यय उक्तः॥कृतालोचनाद्यनुष्ठानाश्च संवरवन्तोभवन्तीति संवरंतद्विपर्यस्तम 0 लघुताऽऽह्लादिताजननमात्मपरनियन्तृताऽऽर्जवं शोधिः / दुष्करकरणमादरो निःशल्यत्वं च शोधिगुणाः॥ 1 // (r) संगतानि तानि (मु०)। // 747 //