SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 745 // अष्टममध्ययन अष्टस्थानम्, सूत्रम् 597 अपराधानालोचनाऽऽलोचनकारणानि, तत्प्रत्याजातिवर्णनानिच वरुटछिंपकादीनां प्रान्तकुलानि- चण्डालादीनां तुच्छकुलानि- अल्पमानुषाणि अगम्भीराशयानि वा दरिद्रकुलानिअनीश्वराणि कृपणकुलानि- तळणवृत्तीनि नटनग्नाचार्यादीनां भिक्षाककुलानि- भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा पुमि त्ति पुमान् अणिढे त्यादि इष्यते स्म प्रयोजनवशादितीष्टः कान्तः- कान्तियोगात् प्रियः- प्रेमविषयो मनोज्ञः- शुभस्वभावो मनसा अम्यते-गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः एतनिषेधात् प्रकृतविशेषणानि तथा हीनस्वरो- ह्रस्वस्वरस्तथा दीनो- दैन्यवान् पुरुषस्तत्सम्बन्धित्वात्स्वरोऽपि दीनः स स्वरो यस्य स तथा, अनादेयवचनश्चासौ प्रत्याजातश्चेति अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजातः सन्निति, शेषं कण्ठ्यं यावद्भासउत्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति, मायी त्यादिना आलोचकस्येहलोकादिस्थानत्रयागर्हितत्वमुक्तविपर्ययस्वरूपमाह- हारेण विराजितं वक्षः- उरो यस्य स तथा कटकानि प्रतीतानि तुटितानि-बाह्वाभरणविशेषास्तैः स्तम्भितौ स्तब्धीकृतौ भुजौ- बाहू यस्य स तथा। अंगदे त्यादि, कर्णावेव पीठे- आसने कुण्डलाधारत्वात्कर्णपीठे, मृष्टेघृष्टे गण्डतले च-कपोलतलेच कर्णपीठे यकाभ्यां ते मृष्टगण्डतलकर्णपीठे तेच ते कुण्डले चेति विशेषणोत्तरपदः प्राकृतत्वा-8 कर्मधारयः / अङ्गदे च-केयूरे बाह्वाभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठे च धारयति यः स तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च-कर्णाभरणविशेषभूते धारयति यः स तथा, तथा विचित्राणि- विविधानि हस्ताभरणानि-अङ्गलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणि चाभरणानि च यस्य वस्त्राण्येव वाऽऽभरणानिभूषणानि अवस्थाभरणानि वा- अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च- पुष्पमाला मौलिश्च-शेखरो यस्य विचित्रमालानांवा मौलिर्यस्य स तथा, कल्याणकानि-मङ्गल्यानि प्रवराणि-मूल्यादिना वस्त्राणि परिहितानि-निवसितानि // 745 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy