SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 743 // अष्टममध्ययन अष्टस्थानम्, सूत्रम् 597 अपराधानालोचनाऽऽलोचनकारणानि, तत्प्रत्याजातिवर्णनानिच बहुत्वेनापिअनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्चषष्ठसप्तमे, तथाऽऽचार्योपाध्यायस्य वा मे अतिशेषं ज्ञानदर्शनंसमुत्पद्येत, सच मामालोकयेत् माई णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमम्, शेषं सूत्रं अयं लोक उपपात आजातिश्च गर्हिते त्यस्य पदत्रयस्य विवरणतया अवगन्तव्यम्, तत्र मायी मायां कृत्वेति, इह कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्यः, स इति यो भवतोऽपि प्रसिद्धो यथेति दृष्टान्तोपन्यासे नामए त्ति सम्भावनायामलङ्कारे वा अयआकरो- लोहाकरो यत्र लोहं ध्यायते इतिरुपदर्शने वा विकल्पे तिला- धान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्नि:- तद्दहनप्रवृत्तो वह्निस्तिलाग्निः / एवं शेषा अप्यग्निविशेषाः, नवरंतुषाः कोद्रवादीनांबुसं-यवादीनांकडङ्गरोनल:- शुषिरसराकारो दलानि-पत्राणि सुण्डिका:पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवेल्ल्यो वा सम्भाव्यन्ते तासां लिञ्छाणि-चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धैः-गोलियसोंडियभंडियलिच्छाणि अग्नेराश्रयाः अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकाग्न्यादिभेदा इत्युक्तम्, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भण्डिका-स्थाल्यस्ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयम्, लिञ्छानि तान्येवेति, कुम्भकारस्यापाको- भाण्डपचनस्थानं कवेल्लकानि- प्रतीतानि तेषामापाक:- प्रतीत एव जंतवाडचुल्ली इक्षुयन्त्रपाटचुल्ली लोहारंबरिसाणि व त्ति लोहकारस्याम्बरीषा- भ्राष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तप्तानि- उष्णानि समानितुल्यानि जाज्वल्यमानत्वाद् ज्योतिषा-वह्निना भूतानि-जातानि यानि तानिसमज्योतिर्भूतानि, किंशुकफुल्लं-पलासकुसुमं तत्समानानि रक्ततया उल्का इव उल्का- अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापकं विनिर्मुश्चन्ति विनिर्मुञ्चन्तीति भृशार्थे द्विवचनम्, अङ्गारा- लघुतराग्निकणास्तत्सहस्राणि प्रविकिरन्ति 2 अंतो अंतो अन्तरन्तः झियायंति ध्मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तो, दार्टान्तिकस्त्वेवमेवेत्यादि, पश्चात्तापाग्निनाध्मायति- जाज्वल्यते, अहमेसेत्ति अहमेषोऽभिशङ्कये अहमेषोऽभि // 743 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy