SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 517 // कालतोऽतीतादे रात्र्यादिवर्तिनोवा भावतः कषायनोकषायादिप्रभवाद् मृषा-अलीकं वदनं वादो मृषावादस्तस्माद्विरमणं- पचममध्ययन विरतिरिति, तथा सर्वस्मात्- कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतोग्रामनगरारण्यादिसम्भवात् काल- पवस्थानम्, प्रथमोद्देशकः तोऽतीतादेरात्र्यादिप्रभवाद्वा भावतोरागद्वेषमोहसमुत्थाद् अदत्तं-स्वामिना अवितीर्णं तस्याऽऽदानं-ग्रहणमदत्तादानं तस्मा सूत्रम् 389 द्विरमणमिति, तथा सर्वस्मात् कृतकारितानुमतिभेदादथवा द्रव्यतो दिव्यमानुषतैरश्चभेदाद्परूपसहगतभेदाद्वा तत्र रूपाणि- महाव्रता ऽणुव्रतानि निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु-सजीवानि भूषणविकलानि वारूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवाद् मिथुनं-स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माविरमणमिति, तथा सर्वस्मात्- कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतोलोकसम्भवात् कालतोऽतीतादेरात्र्यादिभवाद्वा भावतो रागद्वेषविषयात् परिगृह्यते- आदीयते परिग्रहणं वा परिग्रहस्तस्माद्विरमणमिति // व्रतप्रस्तावात् पञ्चाणुव्वए त्याद्यणुव्रतसूत्रम्, स्फुटं चेदम्, किन्तु अणूनि- लघूनि व्रतानि अणुव्रतानि, लघुत्वंच महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च-सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे। देसविरइं पडुच्चा दोण्हवि पडिसेहणं कुज्जा॥१॥ (विशेषाव २७५१)इति अथवा अनु- महाव्रतकथनस्य पश्चात्तदप्रतिपत्तौ यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि, उक्तंच-जइधम्मस्सऽसमत्थे / जुज्जइ तद्देसणंपि साहूणं / तदहिगदोसनिवित्तीफलंति कायाणुकंपट्ठा // 1 // इति अथवा सर्वविरतापेक्षया अणोर्लघोर्गुणिनो व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धः, स्थूलविषयत्वात् / ®सर्वद्रव्यपर्यायगतं सम्यक्त्वं श्रुते चारित्रे च न सर्वे पर्याया। देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधं कुर्यात्-न सर्वद्रव्याणि न सर्वपर्यवाः॥१॥0 यतिधर्मस्यासामर्थ्य तद्देशनमपि साधूनां युज्यते। तदधिकदोषनिवृत्तिफलत्वात्कायानुकम्पार्थम् // 1 // // 517 //
SR No.600433
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy